Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1619

1875 Mantra
Devata- अग्निः Rishi- शुनःशेप आजीगर्तिः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
प्रि꣣यो꣡ नो꣢ अस्तु वि꣣श्प꣢ति꣣र्हो꣡ता꣢ म꣣न्द्रो꣡ वरे꣢꣯ण्यः । प्रि꣣याः꣢ स्व꣣ग्न꣡यो꣢ व꣣य꣢म् ॥१६१९॥

प्रि꣣यः꣢ । नः꣣ । अस्तु । विश्प꣡तिः꣢ । हो꣡ता꣢꣯ । म꣣न्द्रः꣢ । व꣡रे꣢꣯ण्यः । प्रि꣣याः꣢ । स्व꣣ग्न꣡यः꣢ । सु꣣ । अ꣡ग्न꣢यः । व꣣य꣢म् ॥१६१९॥

Mantra without Swara
प्रियो नो अस्तु विश्पतिर्होता मन्द्रो वरेण्यः । प्रियाः स्वग्नयो वयम् ॥

प्रियः । नः । अस्तु । विश्पतिः । होता । मन्द्रः । वरेण्यः । प्रियाः । स्वग्नयः । सु । अग्नयः । वयम् ॥१६१९॥

Samveda - Mantra Number : 1619
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 17; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(विश्पतिः) प्रजापालको नृपतिरिव सर्वेषां जनानां पालकः, (होता) दातव्यानां वस्तूनां प्रदाता, (मन्द्रः) आनन्दप्रदः, (वरेण्यः) वरणीयः जगदीश्वरः (नः) अस्माकम् (प्रियः) प्रीतिविषयः (अस्तु) भवतु। (स्वग्नयः) शुभानां संकल्पोत्साहराष्ट्रियतावीरतादीनाम् आहवनीयादीनां वा अग्नीनां सम्पादकाः (वयम्) वयम् उपासका जना अपि, तस्य जगदीश्वरस्य (प्रियाः) प्रीतिविषयाः, स्यामेति शेषः ॥३॥२ अत्रान्योन्यालङ्कारः३ ॥३॥
Essence
यदा मनुष्याः परमात्मनि प्रीतिं कुर्वन्ति तदा सोऽपि तेषु प्रीतिं करोति ॥३॥
Subject
अथोपास्योपासकयोः सम्बन्धमाह।