Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1618

1875 Mantra
Devata- अग्निः Rishi- शुनःशेप आजीगर्तिः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
य꣢च्चि꣣द्धि꣡ शश्व꣢꣯ता꣣ त꣡ना꣢ दे꣣वं꣡दे꣢वं꣣ य꣡जा꣢महे । त्वे꣡ इद्धू꣢꣯यते ह꣣विः꣢ ॥१६१८॥

य꣢त् । चि꣣त् । हि꣢ । श꣡श्व꣢꣯ता । त꣡ना꣢꣯ । दे꣣वं꣡दे꣢वम् । दे꣣व꣢म् । दे꣣वम् । य꣡जा꣢꣯महे । त्वे꣡इति꣢ । इत् । हू꣣यते । हविः꣢ ॥१६१८॥

Mantra without Swara
यच्चिद्धि शश्वता तना देवंदेवं यजामहे । त्वे इद्धूयते हविः ॥

यत् । चित् । हि । शश्वता । तना । देवंदेवम् । देवम् । देवम् । यजामहे । त्वेइति । इत् । हूयते । हविः ॥१६१८॥

Samveda - Mantra Number : 1618
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 17; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(यत् चित् हि) यद्यपि (शश्वता) प्रचुरेण (तना) धनेन। [तना इति धननामसु पठितम्। निघं० २।१०। तनेन इति प्राप्ते ‘सुपां सुलुक्०’ अ० ७।१।३९ इति विभक्तेराकारादेशः।] वयम्, (देवं देवम्) विद्वांसम् विद्वांसम् (यजामहे) सत्कुर्मः, तथापि हे अग्ने जगन्नायक परमात्मन् ! वस्तुतः (हविः) होतव्यं समर्पणीयं वस्तु आत्ममनोबुद्ध्यादिकम् सर्वं कर्म च (त्वे इत्) त्वयि एव (हूयते) अस्माभिः समर्प्यते ॥२॥२
Essence
यथोचितः सत्कारो मातापित्रतिथिनृपत्याचार्योपदेशकवानप्रस्थ- परिव्राजकादीनां सर्वेषामेव कर्तव्यः, किन्तु जगदुत्पादकधारकसंहारकादिरूपेणैकः परमेश्वर एव पूजनीयः ॥२॥
Subject
अथ परमात्मनि समर्पणं कुरुते।