Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1617

1875 Mantra
Devata- अग्निः Rishi- शुनःशेप आजीगर्तिः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
वि꣡श्वे꣢भिरग्ने अ꣣ग्नि꣡भि꣢रि꣣मं꣢ य꣣ज्ञ꣢मि꣣दं꣡ वचः꣢꣯ । च꣡नो꣢ धाः सहसो यहो ॥१६१७॥

वि꣡श्वे꣢꣯भिः । अ꣣ग्ने । अग्नि꣡भिः꣣ । इ꣣म꣢म् । य꣣ज्ञ꣢म् । इ꣣द꣢म् । व꣡चः꣢꣯ । च꣡नः꣢꣯ । धाः꣣ । सहसः । यहो ॥१६१७॥

Mantra without Swara
विश्वेभिरग्ने अग्निभिरिमं यज्ञमिदं वचः । चनो धाः सहसो यहो ॥

विश्वेभिः । अग्ने । अग्निभिः । इमम् । यज्ञम् । इदम् । वचः । चनः । धाः । सहसः । यहो ॥१६१७॥

Samveda - Mantra Number : 1617
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 17; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अग्ने) जगन्नायक परमात्मन् ! त्वम् (विश्वेभिः) सर्वैः(अग्निभिः) संकल्पोत्साहमहत्त्वाकाङ्क्षावीरतादीनाम् अर्चिभिः, (इमम्) एतम् (यज्ञम्) अस्मदीयं जीवनयज्ञम् आयाहीति शेषः। (इदम्) एतत् (वचः) वचनं, त्वं शृणु। हे(सहसः यहो) बलस्य पुत्रवद् विद्यमान, अतिशयबलवन् ! त्वम् अस्मभ्यम् (चनः) आनन्दामृतम् (धाः देहि) ॥१॥२
Essence
निरग्निर्मानवो मृतवद् भवति। अतो हृदयेऽग्नीन् प्रज्वाल्याऽऽशावादेन सह कर्मयोगमाश्रित्य विजयश्रीः सर्वैराप्तव्या ॥१॥
Subject
तत्रादौ परमात्मा प्रार्थ्यते।