Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1616

1875 Mantra
Devata- पवमानः सोमः Rishi- अत्रिर्भौमः Chhand- जगती Swara- निषादः
Mantra with Swara
अ꣣ग्रेगो꣡ राजाप्य꣢꣯स्तविष्यते वि꣣मा꣢नो꣣ अ꣢ह्नां꣣ भु꣡व꣢ने꣣ष्व꣡र्पि꣢तः । ह꣡रि꣢र्घृ꣣त꣡स्नुः꣢ सु꣣दृ꣡शी꣢को अर्ण꣣वो꣢ ज्यो꣣ती꣡र꣢थः पवते रा꣣य꣢ ओ꣣꣬क्यः꣢꣯ ॥१६१६॥

अ꣣ग्रे꣢गः । अ꣣ग्रे । गः꣢ । रा꣡जा꣢꣯ । अ꣡प्यः꣢꣯ । त꣣विष्यते । विमा꣡नः꣢ । वि꣣ । मा꣡नः꣢꣯ । अ꣡ह्ना꣢꣯म् । अ । ह्ना꣣म् । भु꣡व꣢꣯नेषु । अ꣡र्पि꣢꣯तः । ह꣡रिः꣢꣯ । घृ꣣त꣡स्नुः꣢ । घृ꣣त꣡ । स्नुः꣣ । सुदृ꣡शी꣢कः । सु꣣ । दृ꣡शी꣢꣯कः । अ꣣र्णवः꣢ । ज्यो꣣ती꣡र꣢थः । ज्यो꣣तिः꣢ । रथः । पवते । राये꣢ । ओ꣣꣬क्यः꣢ ॥१६१६॥

Mantra without Swara
अग्रेगो राजाप्यस्तविष्यते विमानो अह्नां भुवनेष्वर्पितः । हरिर्घृतस्नुः सुदृशीको अर्णवो ज्योतीरथः पवते राय ओक्यः ॥

अग्रेगः । अग्रे । गः । राजा । अप्यः । तविष्यते । विमानः । वि । मानः । अह्नाम् । अ । ह्नाम् । भुवनेषु । अर्पितः । हरिः । घृतस्नुः । घृत । स्नुः । सुदृशीकः । सु । दृशीकः । अर्णवः । ज्योतीरथः । ज्योतिः । रथः । पवते । राये । ओक्यः ॥१६१६॥

Samveda - Mantra Number : 1616
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 16; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(अग्रेगः) अग्रेगन्ता, (राजा) विश्वसम्राट्, (अप्यः) अद्भ्यः प्राणेभ्यो हितः। [प्राणा वा आपः। तै० ब्रा० ३।२।५।२, तां० ब्रा० ९।९।४।] (अह्नां विमानः) दिनानां निर्माता, (भुवनेषु अर्पितः) लोकलोकान्तरेषु व्यापकः (सोमः) परमेश्वरः, (तविष्यते)महिमगानेन वर्धिष्यते। (घृतस्नुः) वृष्ट्युदकस्य प्रस्रावयिता।[घृतमित्युदकनाम निघं० १।१२। स्नु प्रस्रवणे, अदादिः।] (सुदृशीकः) सुष्ठु द्रष्टुं योग्यः, (अर्णवः) सद्गुणानां पारावारः, (ज्योतीरथः) ज्योतिषां सूर्यचन्द्रविद्युदादीनां रंहयिता, (ओक्यः) ओकसे देहगृहाय हितः, सः (हरिः) हृदयहारी जगदीश्वरः, (राये) ऐश्वर्याय (पवते) प्राप्नोति ॥३॥
Essence
अहोरात्रपक्षमासऋत्वयनसंवत्सरादीनां सूर्यचन्द्रनक्षत्रादीनां च निर्माता सर्वेषां हितकरः परमेश्वरः सर्वैर्वन्दनीयः ॥३॥ अस्मिन् खण्डे परमात्मनो जीवात्मनो नृपतेराचार्यस्य च वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिर्ज्ञेया ॥ इति बरेलीमण्डलान्तर्गतफरीदपुरवास्तव्य- श्रीमद्गोपालरामभगवतीदेवीतनयेन हरिद्वारीयगुरुकुलकाङ्गड़ीविश्वविद्यालयेऽधीतविद्येन विद्यामार्तण्डेन आचार्यरामनाथवेदालङ्कारेण महर्षिदयानन्दसरस्वतीस्वामिकृतवेदभाष्यशैलीमनुसृत्य विरचिते संस्कृतार्यभाषाभ्यां समन्विते सुप्रमाणयुक्ते सामवेदभाष्ये उत्तरार्चिके षष्ठः प्रपाठकः समाप्तिमगात् ॥
Subject
अथ जगदीश्वरस्य गुणान् वर्णयति।