Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1615

1875 Mantra
Devata- पवमानः सोमः Rishi- अत्रिर्भौमः Chhand- जगती Swara- निषादः
Mantra with Swara
वि꣣पश्चि꣢ते꣣ प꣡व꣢मानाय गायत म꣣ही꣡ न धारात्यन्धो꣢꣯ अर्षति । अ꣢हि꣣र्न꣢ जू꣣र्णा꣡मति꣢꣯ सर्पति꣣ त्व꣢च꣣म꣢त्यो꣣ न꣡ क्रीड꣢꣯न्नसर꣣द्वृ꣢षा꣣ ह꣡रिः꣢ ॥१६१५॥

वि꣣पश्चि꣡ते꣢ । वि꣣पः । चि꣡ते꣢꣯ । प꣡व꣢꣯मानाय । गा꣣यत । मही꣢ । न । धा꣡रा꣢꣯ । अ꣡ति꣢꣯ । अ꣡न्धः꣢꣯ । अ꣣र्षति । अ꣡हिः꣢꣯ । न । जू꣣र्णा꣢म् । अ꣡ति꣢꣯ । स꣣र्पति । त्व꣡च꣢꣯म् । अ꣡त्यः꣢꣯ । न । क्री꣡ड꣢꣯न् । अ꣣सरत् । वृ꣡षा꣢꣯ । ह꣡रिः꣢꣯ ॥१६१५॥

Mantra without Swara
विपश्चिते पवमानाय गायत मही न धारात्यन्धो अर्षति । अहिर्न जूर्णामति सर्पति त्वचमत्यो न क्रीडन्नसरद्वृषा हरिः ॥

विपश्चिते । विपः । चिते । पवमानाय । गायत । मही । न । धारा । अति । अन्धः । अर्षति । अहिः । न । जूर्णाम् । अति । सर्पति । त्वचम् । अत्यः । न । क्रीडन् । असरत् । वृषा । हरिः ॥१६१५॥

Samveda - Mantra Number : 1615
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 16; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे मानवाः ! यूयम् (विपश्चिते) मेधाविने, (पवमानाय) मनोबुद्धीन्द्रियादीनां पावका जीवात्मने (गायत) तन्महत्त्वं वर्णयत। सः (अन्धः) अन्धकारं, तमोगुणम् (अत्यर्षति) अतिपारयति। कथमिव ? (मही न धारा) महती जलधारा यथा मार्गे समागतां पाषाणादिबाधाम् अत्यर्षति अतिपारयति। स जीवात्मा (जूर्णाम्) जीर्णाम् (त्वचम्) चर्ममयीं तनूम् (अतिसर्पति) परित्यज्य गच्छति। कथमिव ? (अहिः न) सर्पः यथा (जूर्णाम्) जीर्णाम् (त्वचम्) कञ्चुलिकाम् (अतिसर्पति) परित्यज्य गच्छति। किञ्च, (वृषा) बलवान् (हरिः) शरीररथस्य वाहकः स जीवात्मा (अत्यः न) रथे नियुक्तः अश्वः इव (क्रीडन्) क्रीडां कुर्वन् (असरत्) शरीररथं वहन् चलति ॥२॥ अत्रोपमालङ्कारः ॥२॥
Essence
न जाने कदा जीवो देहं त्यक्त्वा गच्छेद्, अतः सद्य एव धर्मकर्मसु मनः कार्यं, नोचेत् पश्चात्तापो भविष्यति ॥२॥
Subject
अथ जीवात्मानं वर्णयति।