Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1614

1875 Mantra
Devata- पवमानः सोमः Rishi- अत्रिर्भौमः Chhand- जगती Swara- निषादः
Mantra with Swara
अ꣣ञ्ज꣢ते꣣꣬ व्य꣢꣯ञ्जते꣣ स꣡म꣢ञ्जते꣣ क्र꣡तु꣢ꣳ रिहन्ति꣣ म꣢ध्वा꣣꣬भ्य꣢꣯ञ्जते । सि꣡न्धो꣢रुऽच्छ्वा꣣से꣢ प꣣त꣡य꣢न्तमु꣣क्ष꣡ण꣢ꣳ हिरण्यपा꣣वाः꣢ प꣣शु꣢म꣣प्सु꣡ गृ꣢भ्णते ॥१६१४॥

अ꣣ञ्ज꣡ते꣢ । वि । अ꣣ञ्जते । स꣢म् । अ꣣ञ्जते । क्र꣡तु꣢꣯म् । रि꣣हन्ति । म꣡ध्वा꣢꣯ । अ꣣भि꣢ । अ꣣ञ्जते । सि꣡न्धोः꣢꣯ । उ꣣च्छ्वासे꣢ । उ꣣त् । श्वासे꣢ । प꣣त꣡य꣢न्तम् । उ꣣क्ष꣡ण꣢म् । हि꣣रण्यपावाः꣢ । हि꣣रण्य । पावाः꣢ । प꣣शु꣢म् । अ꣣प्सु꣢ । गृ꣣भ्णते ॥१६१४॥

Mantra without Swara
अञ्जते व्यञ्जते समञ्जते क्रतुꣳ रिहन्ति मध्वाभ्यञ्जते । सिन्धोरुऽच्छ्वासे पतयन्तमुक्षणꣳ हिरण्यपावाः पशुमप्सु गृभ्णते ॥

अञ्जते । वि । अञ्जते । सम् । अञ्जते । क्रतुम् । रिहन्ति । मध्वा । अभि । अञ्जते । सिन्धोः । उच्छ्वासे । उत् । श्वासे । पतयन्तम् । उक्षणम् । हिरण्यपावाः । हिरण्य । पावाः । पशुम् । अप्सु । गृभ्णते ॥१६१४॥

Samveda - Mantra Number : 1614
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 16; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
परमेश्वरोपासका विद्वांसो जनाः (अञ्जते) स्वात्मानं म्रक्षन्ति मार्जयन्ति, (व्यञ्जते) स्तुतिवाचो व्यक्तीकुर्वन्ति, (समञ्जते) परमात्मना सह स्वात्मानं मेलयन्ति, (क्रतुम्) सज्ज्ञानं सत्कर्म च (रिहन्ति) आस्वादयन्ति, (मध्वा) मधुरेण ब्रह्मानन्देन (अभ्यञ्जते) स्वात्मनि सद्गुणानाम् (अभ्यङ्गं) कुर्वन्ति, स्वात्मानं संस्कुर्वन्तीत्यर्थः। (सिन्धोः) रक्तसमुद्रस्य हृदयस्य (उच्छ्वासे) स्पन्दने (पतयन्तम्) गतिं प्रयच्छन्तम् (उक्षणम्) बलस्य सेक्तारम् (पशुम्) द्रष्टारं जीवात्मानम् (हिरण्यपावाः) ज्योतिषो रक्षकाः उपासकाः (अप्सु) स्वकीयेषु कर्मसु (गृभ्णते) गृह्णन्ति, तत्प्रेरणानुसारं कर्माणि कुर्वन्तीत्यर्थः ॥१॥ अत्रैकस्य कर्तृकारकस्यानेकक्रियाभिः सह सम्बन्धाद् दीपकालङ्कारः। ‘अथ कारकमेकं स्यादनेकासु क्रियासु चेत्’ सा० द० १०।४९ इति तल्लक्षणात्। ‘ञ्जते’ इत्यस्य चतुष्कृत्वः पठनाद् वृत्त्यनुप्रासः ॥१॥
Essence
देहे हृदयस्पन्दनं धमनिषु शिरासु च रक्तसंचरणं फुप्फुसयो रक्तशोधनमित्यादि यत्किञ्चिदपि कार्यमस्ति तत् सर्वं जीवात्माधीनं, जीवात्मापि च परमात्माधीनः ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ५६४ क्रमाङ्के व्याख्यातपूर्वा। अत्र प्रकारान्तरेण व्याख्यायते।