Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1613

1875 Mantra
Devata- पवमानः सोमः Rishi- पर्वतनारदौ Chhand- उष्णिक् Swara- ऋषभः
Mantra with Swara
स꣡ने꣢मि꣣ त्व꣢म꣣स्म꣡दा अदे꣢꣯वं꣣ कं꣡ चि꣢द꣣त्रि꣡ण꣢म् । सा꣣ह्वा꣡ꣳ इ꣢न्दो꣣ प꣢रि꣣ बा꣢धो꣣ अ꣡प꣢ द्व꣣यु꣢म् ॥१६१३॥

स꣡ने꣢꣯मि । त्वम् । अ꣣स्म꣢त् । आ । अ꣡दे꣢꣯वम् । अ । दे꣣वम् । क꣢म् । चि꣣त् । अत्रि꣡ण꣢म् । सा꣣ह्वा꣢न् । इ꣣न्दो । प꣡रि꣢꣯ । बा꣡धः꣢꣯ । अ꣡प꣢꣯ । द्व꣣यु꣢म् ॥१६१३॥

Mantra without Swara
सनेमि त्वमस्मदा अदेवं कं चिदत्रिणम् । साह्वाꣳ इन्दो परि बाधो अप द्वयुम् ॥

सनेमि । त्वम् । अस्मत् । आ । अदेवम् । अ । देवम् । कम् । चित् । अत्रिणम् । साह्वान् । इन्दो । परि । बाधः । अप । द्वयुम् ॥१६१३॥

Samveda - Mantra Number : 1613
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 16; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्दो) तेजस्विन् जीवात्मन् परमात्मन् वा ! (त्वम्) शक्तिशाली त्वम् (सनेमि) पुराणं सख्यम्। [सनेमि इति पुराणनाम। निघं० ३।२७।] (अस्मत्) अस्मासु। [अत्र ‘सुपां सुलुक्०’ अ० ७।१।३९ इति विभक्तेर्लुक्।] (आ) आनय।(अदेवम्) अदातारम् असहायकम् (कं चित्) कमपि(अत्रिणम्) भक्षकं पापदुर्व्यसनादिकं दुर्जनं वा (अप) अपगमय। (साह्वान्) शत्रूणां पराजेता त्वम् (बाधः) बाधकान्(परि) परि जहि, (द्वयुम्) द्वयवन्तं सत्यानृतोभययुक्तं, परोक्षमन्यत्, प्रत्यक्षमन्यत्, मनस्यन्यद् वचस्यन्यद् इति द्विविधाचरणोपेतं छद्मव्यवहारिणं च जनम् (अप) अपगमय ॥३॥
Essence
जीवात्मानं प्रोत्साह्य परमात्मानं च समुपास्य सर्वे जना दुष्टान् छद्माचारिणश्च दूरीकृत्य ससङ्गतिं विधाय स्वात्मानं समाजं चोन्नयन्तु ॥३॥
Subject
अथ पुनरपि जीवात्मनः परमात्मनश्च विषयमाह।