Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1612

1875 Mantra
Devata- पवमानः सोमः Rishi- पर्वतनारदौ Chhand- उष्णिक् Swara- ऋषभः
Mantra with Swara
स꣡ नो꣢ हरीणां पत꣣ इ꣡न्दो꣢ दे꣣व꣡प्स꣢रस्तमः । स꣡खे꣢व꣣ स꣢ख्ये꣣ न꣡र्यो꣢ रु꣣चे꣡ भ꣢व ॥१६१२॥

सः꣢ । नः꣣ । हरीणाम् । पते । इ꣡न्दो꣢꣯ । दे꣣व꣡प्स꣢रस्तमः । दे꣣व꣢ । प्स꣣रस्तमः । स꣡खा꣢꣯ । स । खा꣣ । इव । स꣡ख्ये꣢꣯ । स । ख्ये꣣ । न꣡र्यः꣢꣯ । रु꣣चे꣢ । भ꣣व ॥१६१२॥

Mantra without Swara
स नो हरीणां पत इन्दो देवप्सरस्तमः । सखेव सख्ये नर्यो रुचे भव ॥

सः । नः । हरीणाम् । पते । इन्दो । देवप्सरस्तमः । देव । प्सरस्तमः । सखा । स । खा । इव । सख्ये । स । ख्ये । नर्यः । रुचे । भव ॥१६१२॥

Samveda - Mantra Number : 1612
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 16; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (हरीणां पते) इन्द्रियाणाम् आकर्षणगुणयुक्तानां सूर्यचन्द्रभूमण्डलादीनां वा स्वामिन्, (इन्दो) तेजस्विन् जीवात्मन् परमात्मन् वा ! (देवप्सरस्तमः) देवेषु मनोबुद्धीन्द्रियादिषु सूर्यचन्द्रादिषु वा प्सरो रूपं यस्य स देवप्सराः अतिशयेन देवप्सराः देवप्सरस्तमः, देहस्थेभ्यो ब्रह्माण्डस्थेभ्यो वा देवेभ्योऽतिशयेन तत्तच्छक्तिप्रदाता। [प्सरः इति रूपनाम। निघं० ३।७।] (नर्यः) नृभ्यो हितः (सः) असौ त्वम् (नः) अस्माकम् (रुचे) तेजसे (भव) जायस्व। कथमिव ? (सख्ये) सुहृदे (सखा इव) सुहृद् यथा तेजः प्रयच्छति तद्वत् ॥२॥ अत्रोपमालङ्कारः ॥२॥
Essence
जीवात्मा यथा शरीरस्थान् सर्वान् मनोबुद्धिप्राणादीन् स्वस्वकर्मणि सञ्चालयन् तेभ्यः शक्तिं च प्रयच्छन् देहस्य सम्राड् भवति तथा परमेश्वरो ब्रह्माण्डस्थान् सर्वान् सूर्यचन्द्रनक्षत्रादीन् सञ्चालयन् तेभ्यः शक्तिं च प्रयच्छन् ब्रह्माण्डस्य सम्राड् भवति ॥२॥
Subject
अथ पुनरपि जीवात्मा परमात्मा च प्रार्थ्यते।