Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1611

1875 Mantra
Devata- पवमानः सोमः Rishi- पर्वतनारदौ Chhand- उष्णिक् Swara- ऋषभः
Mantra with Swara
गो꣡म꣢न्न इन्दो꣣ अ꣡श्व꣢वत्सु꣣तः꣡ सु꣢दक्ष धनिव । शु꣡चिं꣢ च꣣ व꣢र्ण꣣म꣢धि꣣ गो꣡षु꣢ धारय ॥१६११॥

गो꣡म꣢꣯त् । नः꣣ । इन्दो । अ꣡श्व꣢꣯वत् । सु꣣तः꣢ । सु꣣दक्ष । सु । दक्ष । धनिव । शु꣡चि꣢꣯म् । च꣣ । व꣡र्ण꣢꣯म् । अ꣡धि꣢꣯ । गो꣡षु꣢꣯ । धा꣣रय ॥१६११॥

Mantra without Swara
गोमन्न इन्दो अश्ववत्सुतः सुदक्ष धनिव । शुचिं च वर्णमधि गोषु धारय ॥

गोमत् । नः । इन्दो । अश्ववत् । सुतः । सुदक्ष । सु । दक्ष । धनिव । शुचिम् । च । वर्णम् । अधि । गोषु । धारय ॥१६११॥

Samveda - Mantra Number : 1611
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 16; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सुदक्ष) सुबल (इन्दो) तेजोमय जीवात्मन् परमात्मन् वा ! (सुतः) शरीरे गृहीतजन्मा अन्तरात्मनि प्रेरितो वा त्वम् (नः) अस्मभ्यम् (गोमत्) धेनुपृथिव्यादियुक्तम्, (अश्ववत्) तुरगवह्निविद्युदादियुक्तं च रयिं धनम् (धनिव) धन्व प्रापय।[धन्वतिः गतिकर्मा। निघं० २।१४। धन्व इति प्राप्ते इकारागमश्छान्दसः।] (गोषु च) इन्द्रियेषु च (शुचिं वर्णम्) पवित्रं सात्त्विकं रूपम् (अधि धारय) अधि धेहि ॥१॥
Essence
प्रोद्बोधितो मनुष्यस्यात्मा समाराधितः परमात्मा च निखिलमैश्वर्यं प्रापयितुं मनोबुद्धीन्द्रियादिषु च पवित्रतां सञ्चारयितुमलं भवतः ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ५७४ क्रमाङ्के परमेश्वरं राजानमाचार्यं च सम्बोधिता। अत्र जीवात्मा परमात्मा च सम्बोध्यते।