Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1610

1875 Mantra
Devata- इन्द्रः Rishi- वालखिल्यः (श्रुष्टिगुः काण्वः) Chhand- बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) Swara- पञ्चमः
Mantra with Swara
तु꣣रण्य꣢वो꣣ म꣡धु꣢मन्तं घृत꣣श्चु꣢तं꣣ वि꣡प्रा꣢सो अ꣣र्क꣡मा꣢नृचुः । अ꣣स्मे꣢ र꣣यिः꣡ प꣢प्रथे꣣ वृ꣢ष्ण्य꣣ꣳ श꣢वो꣣ऽस्मे꣢ स्वा꣣ना꣢स꣣ इ꣡न्द꣢वः ॥१६१०॥

तु꣣रण्य꣡वः꣢ । म꣡धु꣢꣯मन्तम् । घृ꣣तश्चु꣡त꣢म् । घृ꣣त । श्चु꣡त꣢꣯म् । वि꣡प्रा꣢꣯सः । वि । प्रा꣣सः । अ꣢र्कम् । आ꣣नृचुः । अस्मे꣡इति꣢ । र꣣यिः꣢ । प꣣प्रथे । वृ꣡ष्ण्य꣢꣯म् । श꣡वः꣢꣯ । अ꣣स्मे꣡इति꣢ । स्वा꣣ना꣡सः꣢ । इ꣡न्द꣢꣯वः ॥१६१०॥

Mantra without Swara
तुरण्यवो मधुमन्तं घृतश्चुतं विप्रासो अर्कमानृचुः । अस्मे रयिः पप्रथे वृष्ण्यꣳ शवोऽस्मे स्वानास इन्दवः ॥

तुरण्यवः । मधुमन्तम् । घृतश्चुतम् । घृत । श्चुतम् । विप्रासः । वि । प्रासः । अर्कम् । आनृचुः । अस्मेइति । रयिः । पप्रथे । वृष्ण्यम् । शवः । अस्मेइति । स्वानासः । इन्दवः ॥१६१०॥

Samveda - Mantra Number : 1610
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 16; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(तुरण्यवः) सत्कर्मसु त्वरणशीलाः (विप्रासः) विपश्चितः(मधुमन्तम्) मधुरानन्दमयम् (घृतश्चुतम्) तेजःप्रस्राविणं स्नेहप्रस्राविणं वा (अर्कम्) अर्चनीयम् इन्द्रं परमेश्वरम्। [अर्को देवो भवति यदेनमर्चन्ति। निरु० ५।५।] (आनृचुः) पूजयन्ति। तस्यैव कृपया (अस्मे) अस्मभ्यम् (रयिः) ऐश्वर्यम् (पप्रथे) सर्वत्र विस्तीर्णोऽस्ति, (वृष्ण्यम्) सुखवर्षणशीलम् (शवः) बलमपि, पप्रथे विस्तीर्णमस्ति। तत एव (अस्मे) अस्मभ्यम् (स्वानासः) अभिषूयमाणाः (इन्दवः) आनन्दरसाः अस्माभिः प्राप्यन्ते ॥२॥
Essence
जगदीश्वर एवास्मभ्यं तेजोधनबलानन्दादीनि प्रयच्छतीति स सर्वैः सश्रद्धं वन्दनीयः ॥२॥
Subject
अथ पुनरपि परमेश्वरविषयमाह।