Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 161

1875 Mantra
Devata- इन्द्रः Rishi- त्रिशोकः काण्वः Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
अ꣣भि꣡ त्वा꣢ वृषभा सु꣣ते꣢ सु꣣त꣡ꣳ सृ꣢जामि पी꣣त꣡ये꣢ । तृ꣣म्पा꣡ व्य꣢श्नुही꣣ म꣡द꣢म् ॥१६१॥

अ꣣भि꣢ । त्वा꣣ । वृषभ । सुते꣢ । सु꣣त꣢म् । सृ꣣जामि । पीत꣡ये꣢ । तृ꣣म्प꣢ । वि । अ꣣श्नुहि । म꣡द꣢꣯म् ॥१६१॥

Mantra without Swara
अभि त्वा वृषभा सुते सुतꣳ सृजामि पीतये । तृम्पा व्यश्नुही मदम् ॥

अभि । त्वा । वृषभ । सुते । सुतम् । सृजामि । पीतये । तृम्प । वि । अश्नुहि । मदम् ॥१६१॥

Samveda - Mantra Number : 161
(Kauthum) पूर्वार्चिकः: » Prapathak » 2; Ardh Prapathak » 2; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—परमात्मपरः। हे (वृषभ) सुखशान्तिवर्षणशील परमात्मन् ! (सुते) प्रवृत्तेऽस्मिन्नुपासनायज्ञे (पीतये) त्वत्पानाय (सुतम्) अभिषुतं भक्तिरसम् (त्वा अभि) त्वामभिलक्ष्य (सृजामि) समर्पयामि। त्वमेतेन (तृम्प) तृप्तिं लभस्व। तृम्प तृप्तौ। संहितायां द्व्यचोऽतस्तिङः। अ० ६।३।१३५ इति दीर्घः। त्वद्भक्तं त्वत्प्रेमपरिप्लुतहृदयं वीक्ष्य (मदम्) आनन्दम् (वि अश्नुहि) प्राप्नुहि। यथा पिता पुत्रं स्वं प्रति श्रद्धालुं वीक्ष्य प्रमोदते तद्वदित्याशयः। संहितायां वृषभा इत्यत्र व्यश्नुही इत्यत्र च अन्येषामपि दृश्यते। अ–० ६।३।१३७ इति दीर्घः ॥ अथ द्वितीयः—आचार्यपरः। गुरुकुले बालकम् आचार्यहस्तयोः समर्पयन् पिता (ब्रूते)—हे (वृषभ) ज्ञानवर्षक आचार्य ! (सुते) प्रवृत्तेऽस्मिन् अध्ययनाध्यापनसत्रे (पीतये) विद्यारसस्य पानाय (सुतम्) स्वकीयं पुत्रम् (त्वा अभि) त्वां प्रति (सृजामि) विसृजामि, त्वदधीनं करोमीत्यर्थः। अथ बालकं प्रत्याह—हे सुत ! त्वम् आचार्याधीनो भूत्वा (तृम्प) ज्ञानरसपानेन तृप्तिं लभस्व, (मदम्) आनन्दप्रदं सदाचारं चापि (वि अश्नुहि) प्राप्नुहि। आचार्यस्य सकाशाद् विद्याशिक्षां व्रतशिक्षां च गृहीत्वा विद्यास्नातको व्रतस्नातकश्च भवेत्यर्थः ॥७॥ अत्र श्लेषः, सुते-सुतं इत्यत्र च छेकानुप्रासोऽलङ्कारः ॥७॥
Essence
परमेश्वरः पृथिव्यां मेघजलमुपासकानां हृदये च सुखशान्तिं वर्षति, तथैवाचार्यः शिष्यस्य हृदये विद्यां सदाचारं च वर्षति। अतः सर्वे परमेश्वरस्योपासनामाचार्यस्य सेवां च कुर्वन्तु ॥७॥
Subject
अथ परमात्मानमाचार्यञ्च सम्बोध्याह।
Footnote
१. ऋ० ८।४५।२२, अथ० २०।२२।१, साम० ७३१।