Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1609

1875 Mantra
Devata- इन्द्रः Rishi- वालखिल्यः (श्रुष्टिगुः काण्वः) Chhand- बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) Swara- मध्यमः
Mantra with Swara
य꣢स्या꣣यं꣢꣫ विश्व꣣ आ꣢र्यो꣣ दा꣡सः꣢ शेवधि꣣पा꣢ अ꣣रिः꣢ । ति꣣र꣡श्चि꣢द꣣र्ये꣢ रु꣣श꣢मे꣣ प꣡वी꣢रवि꣣ तु꣡भ्येत्सो अ꣢꣯ज्यते र꣣यिः꣢ ॥१६०९॥

य꣡स्य꣢꣯ । अ꣣य꣢म् । वि꣡श्वः꣢꣯ । आ꣡र्यः꣢꣯ । दा꣡सः꣢꣯ । शे꣣वधिपाः꣢ । शे꣣वधि । पाः꣢ । अ꣡रिः꣢꣯ । ति꣣रः꣢ । चि꣣त् । अर्ये꣢ । रु꣣श꣡मे꣢ । प꣡वी꣢꣯रवि । तु꣡भ्य꣢꣯ । इत् । सः । अ꣣ज्यते । रयिः꣢ ॥१६०९॥

Mantra without Swara
यस्यायं विश्व आर्यो दासः शेवधिपा अरिः । तिरश्चिदर्ये रुशमे पवीरवि तुभ्येत्सो अज्यते रयिः ॥

यस्य । अयम् । विश्वः । आर्यः । दासः । शेवधिपाः । शेवधि । पाः । अरिः । तिरः । चित् । अर्ये । रुशमे । पवीरवि । तुभ्य । इत् । सः । अज्यते । रयिः ॥१६०९॥

Samveda - Mantra Number : 1609
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 16; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(यस्य) यस्य तव इन्द्रस्य परमात्मनः (अयम्) एष प्रत्यक्षं दृश्यमानः (विश्वः) सम्पूर्णः संसारो विद्यते, यः त्वम् (आर्यः) श्रेष्ठः, (दासः) दुष्टानामुपक्षयिता, (शेवधिपाः) निधिपाः। [निधिः शेवधिरिति यास्कः। निरु० २।४।] (अरिः) ईश्वरश्च वर्तसे। [अरिः ईश्वरः। निरु० ५।२।] (यश्च त्वम्) (अर्ये) स्वामिनि, जीवनाधारे पवने इत्यर्थः, (रुशमे) रुचमे, रोचिष्मति आदित्ये। [रुशदिति वर्णनाम रोचतेर्ज्वलतिकर्मणः। निरु० ६।१३।] (पवीरवि) विद्युन्मति पर्जन्ये च। [पवीरं विद्युद्वज्रं वाति प्राप्नोति तस्मिन्।] (तिरः चित्) प्राप्तः एव तिष्ठसि। [तिरः सतः इति प्राप्तस्य। निरु० ३।२०।] एतादृशाय (तुभ्य इत्) तुभ्यमेव (सः) जगति सर्वत्र विकीर्णः (रयिः) धनम् (अज्यते) समर्प्यते [तुभ्यम् इत्यस्य मकारलोपश्छान्दसः।] ॥१॥२
Essence
विश्वसम्राट् श्रेष्ठः सज्जनरक्षको दुष्टानां दलयिता भूगर्भे निहितानां निधीनां रक्षकः सर्वकर्मक्षमः सर्वान्तर्यामी यः परमेश्वरोऽस्ति तस्यैव सर्वं धनमिति हेतोः तदर्पणबुद्ध्या तत् सेवनीयम् ॥१॥
Subject
तत्रादाविन्द्रं परमेश्वरं वर्णयति।