Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1608

1875 Mantra
Devata- इन्द्रः Rishi- मेध्यातिथिः काण्वः Chhand- बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) Swara- पञ्चमः
Mantra with Swara
अ꣣य꣢ꣳ स꣣ह꣢स्र꣣मृ꣡षि꣢भिः꣣ स꣡ह꣢स्कृतः समु꣣द्र꣡ इ꣢व पप्रथे । स꣣त्यः꣡ सो अ꣢꣯स्य महि꣣मा꣡ गृ꣢णे꣣ श꣡वो꣢ य꣣ज्ञे꣡षु꣢ विप्र꣣रा꣡ज्ये꣢ ॥१६०८॥

अ꣣य꣢म् । स꣣ह꣡स्र꣢म् । ऋ꣡षि꣢꣯भिः । स꣡ह꣢꣯स्कृतः । स꣡हः꣢꣯ । कृ꣣तः । समुद्रः꣢ । स꣣म् । उद्रः꣢ । इ꣣व । पप्रथे । सत्यः꣢ । सः । अ꣣स्य । महिमा꣢ । गृ꣣णे । श꣡वः꣢꣯ । य꣣ज्ञे꣡षु꣢ । वि꣣प्ररा꣡ज्ये꣢ । वि꣣प्र । रा꣡ज्ये꣢꣯ ॥१६०८॥

Mantra without Swara
अयꣳ सहस्रमृषिभिः सहस्कृतः समुद्र इव पप्रथे । सत्यः सो अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये ॥

अयम् । सहस्रम् । ऋषिभिः । सहस्कृतः । सहः । कृतः । समुद्रः । सम् । उद्रः । इव । पप्रथे । सत्यः । सः । अस्य । महिमा । गृणे । शवः । यज्ञेषु । विप्रराज्ये । विप्र । राज्ये ॥१६०८॥

Samveda - Mantra Number : 1608
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 16; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(अयम्) एष (परमेश्वरः) आचार्यो वा (सहस्रम्) सहस्रवारम् (ऋषिभिः) तत्त्वदर्शिभिर्जनैः (सहस्कृतः) सहसा बलेन कृतः स्तुतः सन् (समुद्रः इव) सागरः इव (पप्रथे) यशसा प्रथितो भवति। (सः) असौ (अस्य) परमेश्वरस्य आचार्यस्य वा (महिमा) महत्त्वम् (सत्यः) अवितथो वर्तते। अहम् (विप्रराज्ये) विप्राणां विपश्चितां राज्ये (यज्ञेषु) उपासनायज्ञेषु शिक्षायज्ञेषु वा, (शवः) अस्य बलम् (गृणे) स्तौमि। [विप्रराज्ये इत्यत्र ‘अकर्मधारये राज्यम्’। अ० ६।२।१३० इत्युत्तरपदादिरुदात्तः] ॥२॥२ अत्रोपमालङ्कारः ॥२॥
Essence
यथा समुद्रो जलेन विस्तीर्णो भवति तथा जगदीश्वर आचार्यश्च यशसा ॥२॥
Subject
अथ पुनरपि परमात्माऽऽचार्ययोर्विषयमाह।