Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1607

1875 Mantra
Devata- इन्द्रः Rishi- मेध्यातिथिः काण्वः Chhand- बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) Swara- मध्यमः
Mantra with Swara
इ꣣मा꣡ उ꣢ त्वा पुरूवसो꣣ गि꣡रो꣢ वर्धन्तु꣣ या꣡ मम꣢꣯ । पा꣣वक꣡व꣢र्णाः꣣ शु꣡च꣢यो विप꣣श्चि꣢तो꣣ऽभि꣡ स्तोमै꣢꣯रनूषत ॥१६०७॥

इ꣣माः꣢ । उ꣣ । त्वा । पुरूवसो । पुरु । वसो । गि꣡रः꣢꣯ । व꣣र्धन्तु । याः꣢ । म꣡म꣢꣯ । पा꣣वक꣡व꣢र्णाः । पा꣣व꣢क । व꣣र्णाः । शु꣡च꣢꣯यः । वि꣣पश्चि꣡तः꣢ । वि꣣पः । चि꣡तः꣢꣯ । अ꣣भि꣢ । स्तो꣡मैः꣢꣯ । अ꣣नूषत ॥१६०७॥

Mantra without Swara
इमा उ त्वा पुरूवसो गिरो वर्धन्तु या मम । पावकवर्णाः शुचयो विपश्चितोऽभि स्तोमैरनूषत ॥

इमाः । उ । त्वा । पुरूवसो । पुरु । वसो । गिरः । वर्धन्तु । याः । मम । पावकवर्णाः । पावक । वर्णाः । शुचयः । विपश्चितः । विपः । चितः । अभि । स्तोमैः । अनूषत ॥१६०७॥

Samveda - Mantra Number : 1607
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 16; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (पुरूवसो) बह्वैश्वर्य परमात्मन्, बहुविद्याधनसम्पन्न आचार्य वा ! (इमाः उ) एताः खलु (याः मम गिरः) या मदीया वाचः सन्ति ताः (त्वा) त्वाम् (वर्धन्तु) वर्धयन्तु, तव महिमानं प्रकाशयन्तामित्यर्थः। (पावकवर्णाः) अग्निवर्णाः, अग्निवत् तेजस्विनः, (शुचयः) पवित्राः (विपश्चितः) विद्वांसः (स्तोमैः) स्तोत्रैः त्वाम् परमात्मानम् आचार्यं वा (अभ्यनूषत) अभिस्तुवन्ति ॥१॥२ पावकवर्णाः इत्यत्र वाचकलुप्तोपमालङ्कारः ॥१॥
Essence
यथा जगदीश्वरो वेदज्ञानप्रदानेन तथाचार्यो वेदादिशास्त्राणां शिक्षणेन सर्वानुपकरोति ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके २५० क्रमाङ्के परमात्मानं सम्बोधिता। अत्र युगपत् परमात्मानमाचार्यं चाह।