Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1605

1875 Mantra
Devata- इन्द्रः Rishi- देवातिथिः काण्वः Chhand- बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) Swara- मध्यमः
Mantra with Swara
मा꣡ भे꣢म꣣ मा꣡ श्र꣢मिष्मो꣣ग्र꣡स्य꣢ स꣣ख्ये꣡ तव꣢꣯ । म꣣ह꣢त्ते꣣ वृ꣡ष्णो꣢ अभि꣣च꣡क्ष्यं꣢ कृ꣣तं꣡ पश्ये꣢꣯म तु꣣र्व꣢शं꣣ य꣡दु꣢म् ॥१६०५॥

मा꣢ । भे꣣म । मा꣢ । श्र꣣मिष्म । उग्र꣡स्य꣢ । स꣣ख्ये꣢ । स꣣ । ख्ये꣢ । त꣡व꣢꣯ । म꣣ह꣢त् । ते꣣ । वृ꣡ष्णः꣢꣯ । अ꣣भिच꣡क्ष्य꣢म् । अ꣣भि । च꣡क्ष्य꣢꣯म् । कृ꣣त꣢म् । प꣡श्ये꣢꣯म । तु꣣र्व꣡श꣢म् । य꣡दु꣢꣯म् ॥१६०५॥

Mantra without Swara
मा भेम मा श्रमिष्मोग्रस्य सख्ये तव । महत्ते वृष्णो अभिचक्ष्यं कृतं पश्येम तुर्वशं यदुम् ॥

मा । भेम । मा । श्रमिष्म । उग्रस्य । सख्ये । स । ख्ये । तव । महत् । ते । वृष्णः । अभिचक्ष्यम् । अभि । चक्ष्यम् । कृतम् । पश्येम । तुर्वशम् । यदुम् ॥१६०५॥

Samveda - Mantra Number : 1605
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 16; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे इन्द्र परमात्मन् ! (उग्रस्य) अधार्मिकान् प्रति प्रचण्डस्य (तव) ते (सख्ये) सखित्वे, वयम् (मा भेम) भीता मा भूम, (मा श्रमिष्म) श्रमं प्राप्ता मा भूम। (वृष्णः ते) सुखादीनां वर्षकस्य तव (महत्) महिमोपेतम् (कृतम्) कर्म (अभिचक्ष्यम्) प्रशंसनीयमस्ति। त्वत्कृपया वयम् अस्मद्राष्ट्रे (तुर्वशम्२) हिंसकानां वशकरम्(यदुम्३) संयमशीलं च जनम्। [यदवः इति मनुष्यनामसु पठितम्। निघं० २।३। यमेर्दुक् प्रत्ययः।] (पश्येम) अवलोकयेम ॥१॥
Essence
जगदीश्वरस्य सखायो न कदापि बिभ्यति, न श्राम्यन्ति, प्रत्युत सत्कर्माणि कुर्वन्तः सदैवोन्नतिपथेऽग्रेसरा जायन्ते ॥१॥
Subject
तत्रादाविन्द्रं परमात्मानं प्रार्थयते।