Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1604

1875 Mantra
Devata- अग्निर्हवींषि वा Rishi- हर्यतः प्रागाथः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
सि꣣ञ्च꣡न्ति꣢ न꣡म꣢साव꣣ट꣢मु꣣च्चा꣡च꣢क्रं꣣ प꣡रि꣢ज्मानम् । नी꣣ची꣡न꣢वार꣣म꣡क्षि꣢तम् ॥१६०४॥

सि꣣ञ्च꣡न्ति꣢ । न꣡म꣢꣯सा । अ꣣वट꣢म् । उ꣣च्चा꣡च꣢क्रम् । उ꣣च्चा꣢ । च꣣क्रम् । प꣡रि꣢꣯ज्मानम् । प꣡रि꣢꣯ । ज्मा꣣नम् । नीची꣡न꣢वारम् । नी꣣ची꣡न꣢ । वा꣣रम् । अ꣡क्षि꣢꣯तम् । अ । क्षि꣣तम् ॥१६०४॥

Mantra without Swara
सिञ्चन्ति नमसावटमुच्चाचक्रं परिज्मानम् । नीचीनवारमक्षितम् ॥

सिञ्चन्ति । नमसा । अवटम् । उच्चाचक्रम् । उच्चा । चक्रम् । परिज्मानम् । परि । ज्मानम् । नीचीनवारम् । नीचीन । वारम् । अक्षितम् । अ । क्षितम् ॥१६०४॥

Samveda - Mantra Number : 1604
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 16; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
अग्नेः परमेश्वरस्यैव महिम्ना सूर्यकिरणाः (उच्चाचक्रम्) उच्चा उच्चैः चक्रं विद्युद्रूपं यस्य तम्, (नीचीनवारम्) नीचैर्मुखद्वारम्, (अक्षितम्) अक्षयम् (अवटम्) मेघरूपं कूपम्(परिज्मानम्) ज्मायां पृथिव्यां परिव्याप्तं यथा स्यात् तथा(नमसा) विद्युद्वज्रेण। [नमः इति वज्रनाम। निघं० २।२०।] (सिञ्चन्ति) भूमौ क्षारयन्ति ॥३॥
Essence
यस्य परमेश्वरस्य व्यवस्थया मेघानां निर्माणं ततो वृष्टिश्च संजायते तं हृदि संधार्य योगिनो धर्ममेघसमाधिमधिगच्छन्तु ॥३॥ अस्मिन् खण्डे परमेश्वरस्य विदुषः सन्तानानामात्मबुद्ध्यो- रुपासकस्य वृष्टेश्च वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥
Subject
अथ पुनस्तमेव विषयमाह।