Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1603

1875 Mantra
Devata- अग्निर्हवींषि वा Rishi- हर्यतः प्रागाथः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
अ꣣भ्या꣢र꣣मि꣡दद्र꣢꣯यो꣣ नि꣡षि꣢क्तं꣣ पु꣡ष्क꣢रे꣣ म꣡धु꣢ । अ꣣व꣡ट꣢स्य वि꣣स꣡र्ज꣢ने ॥१६०३॥

अ꣣भ्या꣡र꣢म् । अ꣣भि । आ꣡र꣢꣯म् । इत् । अ꣡द्र꣢꣯यः । अ । द्र꣣यः । नि꣡षि꣢꣯क्तम् । नि । सि꣣क्तम् । पु꣡ष्क꣢꣯रे । म꣡धु꣢꣯ । अ꣣वट꣡स्य꣢ । वि꣣स꣡र्ज꣢ने । वि꣣ । स꣡र्ज꣢꣯ने ॥१६०३॥

Mantra without Swara
अभ्यारमिदद्रयो निषिक्तं पुष्करे मधु । अवटस्य विसर्जने ॥

अभ्यारम् । अभि । आरम् । इत् । अद्रयः । अ । द्रयः । निषिक्तम् । नि । सिक्तम् । पुष्करे । मधु । अवटस्य । विसर्जने । वि । सर्जने ॥१६०३॥

Samveda - Mantra Number : 1603
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 16; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
अग्नेः परमात्मन एव महिम्ना (अद्रयः) मेघाः। [अद्रिरिति मेघनाम। निघं० १।१०।] (अभ्यारम् इत्) परस्परं संघट्टन्ते खलु। ततः (अवटस्य) मेघरूपस्य कूपस्य। [अवत इति कूपनाम। निघं० ३।२३।] (विसर्जने) वर्षणे सति (पुष्करे) भूमिष्ठे सरोवरे (मधु) मधुरं वृष्ट्युदकम् (निषिक्तम्) संसिक्तं जायते ॥२॥
Essence
यदिदं भूमिष्ठमुदकं सूर्यतापेनान्तरिक्षं गत्वा मेघतां प्रतिपद्यते, पुनश्च पृथिव्यां वर्षति, तत्सर्वं जगदीश्वरस्यैव कर्तृत्वं विद्यते ॥२॥
Subject
अथ वृष्टिमुखेन परमात्मनो महिमानमाचष्टे।