Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1602

1875 Mantra
Devata- अग्निर्हवींषि वा Rishi- हर्यतः प्रागाथः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
गा꣢व꣣ उ꣡प꣢ वदाव꣣टे꣢ म꣣ही꣢ य꣣ज्ञ꣡स्य꣢ र꣣प्सु꣡दा꣢ । उ꣣भा꣡ कर्णा꣢꣯ हिर꣣ण्य꣡या꣢ ॥१६०२॥

गा꣡वः꣢꣯ । उ꣡प꣢꣯ । व꣣द । अवटे꣢ । म꣣ही꣡इति꣢ । य꣣ज्ञ꣡स्य꣢ । र꣣प्सु꣡दा꣢ । र꣣प्सु꣢ । दा꣣ । उ꣡भा । क꣡र्णा꣢꣯ । हि꣣रण्य꣡या꣢ ॥१६०२॥

Mantra without Swara
गाव उप वदावटे मही यज्ञस्य रप्सुदा । उभा कर्णा हिरण्यया ॥

गावः । उप । वद । अवटे । महीइति । यज्ञस्य । रप्सुदा । रप्सु । दा । उभा । कर्णा । हिरण्यया ॥१६०२॥

Samveda - Mantra Number : 1602
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 16; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे मानव ! उपासनायज्ञे त्वम् (अवटे) आनन्दरसानां कूपे अग्नौ परमेश्वरे, तादृशं परमेश्वरमधिकृत्येत्यर्थः (गावः) गाः वेदवाचः।[छन्दसि सर्वेषां विधीनां विकल्पनादत्र ‘औतोम्शसोः’ इति न प्रवर्तते।] (उपवद) सामीप्येन उच्चारय। (मही) मह्यौ द्यावापृथिव्यौ (यज्ञस्य) पूजनीयस्य परमात्मनः। [इज्यते पूज्यते इति यज्ञः परमेश्वरः।] (रप्सु-दा) रप्सु-दे, कीर्तिगायिके स्तः, ये(उभा) उभे, (कर्णा) कर्णे विविधैश्वर्याणां विक्षेपिके। [कॄ विक्षेपे धातोः ‘कॄवॄजॄसिद्रूपन्यनिस्वपिभ्यो नित्। उ० ३।१०’ इति नक् प्रत्ययः, तस्य च नित्त्वादाद्युदात्तत्वम्।] (हिरण्यया) हिरण्ये ज्योतिर्मये स्तः। [रप्सुदा, उभा, कर्णा, हिरण्यया इति सर्वत्र स्त्रियां प्रथमाद्विवचनस्य ‘सुपां सुलुक्०’ ७।१।३९ इत्याकारः] ॥१॥२
Essence
ऐश्वर्यपूर्णे दीप्ते द्यावापृथिव्यौ जगदीश्वरस्यैव महिमानं गायतः ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ११७ क्रमाङ्के व्याख्यातपूर्वा। अत्र प्रकारान्तरेण व्याख्यायते।