Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1601

1875 Mantra
Devata- इन्द्रः Rishi- शुनःशेप आजीगर्तिः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
ऊ꣣र्ध्व꣡स्ति꣢ष्ठा न ऊ꣣त꣢ये꣣ऽस्मि꣡न्वाजे꣢꣯ श꣢त꣣क्र꣡तो꣢ । स꣢म꣣न्ये꣡षु꣢ ब्रवावहै ॥१६०१॥

ऊ꣣र्ध्वः꣢ । ति꣣ष्ठ । नः । ऊत꣡ये꣢ । अ꣢स्मि꣢न् । वा꣡जे꣢꣯ । श꣣तक्रतो । शत । क्रतो । स꣢म् । अ꣣न्ये꣡षु꣢ । अ꣣न् । ये꣡षु꣢꣯ । ब्र꣣वावहै ॥१६०१॥

Mantra without Swara
ऊर्ध्वस्तिष्ठा न ऊतयेऽस्मिन्वाजे शतक्रतो । समन्येषु ब्रवावहै ॥

ऊर्ध्वः । तिष्ठ । नः । ऊतये । अस्मिन् । वाजे । शतक्रतो । शत । क्रतो । सम् । अन्येषु । अन् । येषु । ब्रवावहै ॥१६०१॥

Samveda - Mantra Number : 1601
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 16; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (शतक्रतो) अनन्तप्रज्ञ अनन्तकर्मन् इन्द्र परमात्मन् ! त्वम्(अस्मिन् वाजे) एतस्मिन् देवासुरसंग्रामे (नः ऊतये) अस्माकं रक्षायै (ऊर्ध्वः) जागरूकः (तिष्ठ) भव। (अन्येषु)इतरेष्वपि अवसरेषु त्वं च अहं च (संब्रवावहै) परस्परम् अन्तरङ्गं संलापं कुर्यावः ॥३॥२
Essence
यदा यदा बाह्या आन्तरा वा देवासुरसंग्रामा उपतिष्ठन्ते तदा तदा परमेश्वरविश्वासं स्वात्मनि सबलं कृत्वाऽऽत्मोद्बोधनं प्राप्य सर्वानन्तरायान् विफलीकृत्य विजयः प्राप्तव्यः ॥३॥
Subject
अथ परमेश्वरं सम्बोधयति।