Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1600

1875 Mantra
Devata- इन्द्रः Rishi- शुनःशेप आजीगर्तिः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
स्तो꣣त्र꣡ꣳ रा꣢धानां पते꣣ गि꣡र्वा꣢हो वीर꣣ य꣡स्य꣢ ते । वि꣡भू꣢तिरस्तु सू꣣नृ꣡ता꣢ ॥१६००॥

स्तो꣣त्र꣢म् । रा꣣धानाम् । पते । गि꣡र्वा꣢꣯हः । वी꣣र । य꣡स्य꣢꣯ । ते꣣ । वि꣡भू꣢꣯तिः । वि । भू꣣तिः । अस्तु । सूनृ꣡ता꣢ । सू꣣ । नृ꣡ता꣢꣯ ॥१६००॥

Mantra without Swara
स्तोत्रꣳ राधानां पते गिर्वाहो वीर यस्य ते । विभूतिरस्तु सूनृता ॥

स्तोत्रम् । राधानाम् । पते । गिर्वाहः । वीर । यस्य । ते । विभूतिः । वि । भूतिः । अस्तु । सूनृता । सू । नृता ॥१६००॥

Samveda - Mantra Number : 1600
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 16; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (राधानां पते) ऐश्वर्याणां स्वामिन्, (गिर्वाहः२) गीर्भिः वेदवाग्भिः प्राप्तव्य, (वीर) शूर इन्द्र परमात्मन् ! (यस्य ते) यस्य तव (स्तोत्रम्) स्तुतिकीर्तनं सर्वत्र भवति, तस्य तव (सूनृता३) ऋतमयी प्रिया मधुरा च वेदवाक्, अस्मभ्यम् (विभूतिः) वैभवकारिणी (अस्तु) भवतु ॥२॥४
Essence
वेदानधीत्य तत्रस्थाः सर्वा विद्या विज्ञाय सर्वे जना वैभवशालिनो ब्रह्मसाक्षात्कर्तारश्च भवन्तु ॥२॥
Subject
अथेन्द्रं परमेश्वरं स्तौति।