Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 160

1875 Mantra
Devata- इन्द्रः Rishi- मधुच्छन्दा वैश्वामित्रः Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
सु꣣रूपकृत्नु꣢मू꣣त꣡ये꣢ सु꣣दु꣡घा꣢मिव गो꣣दु꣡हे꣢ । जु꣣हूम꣢सि꣣ द्य꣡वि꣢द्यवि ॥१६०॥

सु꣣रूपकृत्नुम् । सु꣣रूप । कृत्नु꣢म् । ऊ꣣त꣡ये꣢ । सु꣣दु꣡घा꣢म् । सु꣣ । दु꣡घा꣢꣯म् । इ꣣व गोदु꣡हे꣢ । गो꣣ । दु꣡हे꣢꣯ । जु꣣हूम꣡सि꣣ । द्य꣡वि꣢꣯द्यवि । द्य꣡वि꣢꣯ । द्य꣣वि ॥१६०॥

Mantra without Swara
सुरूपकृत्नुमूतये सुदुघामिव गोदुहे । जुहूमसि द्यविद्यवि ॥

सुरूपकृत्नुम् । सुरूप । कृत्नुम् । ऊतये । सुदुघाम् । सु । दुघाम् । इव गोदुहे । गो । दुहे । जुहूमसि । द्यविद्यवि । द्यवि । द्यवि ॥१६०॥

Samveda - Mantra Number : 160
(Kauthum) पूर्वार्चिकः: » Prapathak » 2; Ardh Prapathak » 2; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
वयम् उपासकाः प्रजाजनाः शिष्याः वा (सुरूपकृत्नुम्२) सुरूपाणां जगद्धारणादिकर्मणां कर्त्तारम् इन्द्रं परमात्मानम्, सुरूपाणां प्रजापालनराष्ट्रनिर्माणादिकर्मणां कर्त्तारम् इन्द्रं राजानम्, सुरूपाणां विद्याप्रदानाचारनिर्माणादिकर्मणां कर्त्तारम् इन्द्रम् आचार्यं वा। कृत्नु इत्यत्र कृ धातोः कृहनिभ्यां क्त्नुः। उ० ३।३० इति क्त्नुः प्रत्ययः. (ऊतये) उपासनाफलावाप्तये, राष्ट्ररक्षणाय, विद्याप्राप्तये वा। अव धातोरर्थेषु अवाप्तिः रक्षणम् अवगमश्चापि पठिताः। (द्यविद्यवि) दिनेदिने। नित्यवीप्सयोः अ० ८।१।४ अनेन द्वित्त्वम्। द्यविद्यवि इत्यहर्नाम। निघं० २।३। (जुहूमसि) आह्वयामः। ह्वेञ् स्पर्धायां शब्दे च इति धातोः ‘बहुलं छन्दसि’ अ० २।४।७६ अनेन शपः स्थाने श्लुः। ‘अभ्यस्तस्य च’ अ० ६।१।३३ अनेन सम्प्रसारणम्। सम्प्रसारणाच्च अ० ६।१।१०८ अनेन पूर्वरूपम् हलः अ० ६।४।२ इति दीर्घः। इदन्तो मसि अ० ७।१।४६ इति मसेरिकारागमः। (गोदुहे) गोर्दोग्ध्रे दुग्धादिकमिच्छवे मनुष्याय (सुदुघाम् इव) यथा दोग्ध्रीं गाम् आह्वयन्ति तद्वत् ॥६॥३ अत्र श्लेष उपमालङ्कारश्च ॥६॥
Essence
यथा दुग्धेच्छुभिर्दुग्धप्राप्तये पयस्विनी गौराहूयते तथैव उपासका उपासनाजन्यानन्दप्राप्तये परमात्मानं, प्रजाजना राष्ट्ररक्षणाय राजानं, शिष्यजनाश्च विद्याग्रहणायाचार्यं प्रतिदिनं सत्कारपूर्वकमाह्वयन्तु ॥६॥
Subject
अथेन्द्रनाम्ना परमात्मा नृपतिराचार्यश्चाहूयते।
Footnote
१. ऋ० १।४।१, अथ० २०।५७।१, ६८।१, साम० १०८७। २. सुरूपकृत्नुम्। शोभनस्य वृत्रवधादेः कर्मणः कर्त्तारमिन्द्रम्—इति वि०। सुरूपाणां कर्मणां कर्तारम् इन्द्रम्—इति भ०। ३. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं परमेश्वरपक्षे व्याख्यातवान्।