Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 16

1875 Mantra
Devata- अग्निः Rishi- मेधातिथिः काण्वः Chhand- गायत्री Swara- षड्जः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
प्र꣢ति꣣ त्यं꣡ चारु꣢꣯मध्व꣣रं꣡ गो꣢पी꣣था꣢य꣣ प्र꣡ हू꣢यसे । म꣣रु꣡द्भि꣢रग्न꣣ आ꣡ ग꣢हि ॥१६॥

प्र꣡ति꣢꣯ । त्यम् । चा꣡रु꣢꣯म् । अ꣣ध्वर꣢म् । गो꣣पीथा꣡य꣢ । प्र । हू꣣यसे । मरु꣡द्भिः꣢ । अ꣣ग्ने । आ꣢ । ग꣣हि ॥१६॥

Mantra without Swara
प्रति त्यं चारुमध्वरं गोपीथाय प्र हूयसे । मरुद्भिरग्न आ गहि ॥

प्रति । त्यम् । चारुम् । अध्वरम् । गोपीथाय । प्र । हूयसे । मरुद्भिः । अग्ने । आ । गहि ॥१६॥

Samveda - Mantra Number : 16
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 1; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(त्यम्) तम् अस्माभिः क्रियमाणम् (चारुम्) श्रेष्ठम् (अध्वरम्) हिंसाऽधर्मादिदोषरहितम् उपासनायज्ञं जीवनयज्ञं वा। ‘अध्वर इति यज्ञनाम, ध्वरति हिंसाकर्मा, तत्प्रतिषेधः इति निरुक्तम् (१।७)(प्रति) अभिलक्ष्य (गोपीथाय२) गवां विषयगोचरेषु भ्राम्यताम् इन्द्रियाणां पीथाय रक्षणाय, अस्माकं श्रद्धारसरूपस्य सोमस्य पानाय वा। गोपीथाय सोमपानायेति यास्कः। निरु० १०।३५। निशीथगोपीथावगथाः।’ उ० २।९ इति गोपूर्वात् पा रक्षणे पा पाने वा धातोस्थक्प्रत्ययान्तो निपातः। (प्र हूयसे) प्रकर्षेण निमन्त्र्यसे। (अग्ने) हे ज्योतिर्मय परमात्मन् ! त्वम् (मरुद्भिः) प्राणैः, अस्मदनुष्ठीयमानप्राणायामक्रियाभिः (आ गहि) आगच्छ। आङ्पूर्वाद् गम्लृ गतौ धातोर्लोण्मध्यमैकवचने छान्दसं रूपम् ॥६॥
Essence
हे परमात्मन् ! यथा पवनैः प्रज्वलितोऽग्निर्नानाज्वालाभिर्नृत्यन्निव यज्ञवेद्यामस्मत्संमुखमुपस्थितो भवति, तथैवास्माकं प्राणायामपवनैः प्रदीपितस्त्वं नो जीवनयज्ञमुपासनायज्ञं वा समागच्छ, मनोवाक्चक्षुरादीनीन्द्रियाणि च विषयेभ्यः सततं रक्षन्नस्माकं श्रद्धारसं कणेहत्य पिब ॥६॥
Subject
अथ परमात्माग्निमाह्वयन्नाह।
Footnote
१. ऋ० १।१९।१। ऋग्वेदे दयानन्दर्षिणाऽयं मन्त्रो विद्युद्रूपभौति- काग्निपक्षे व्याख्यातः। २. गोपीथाय। गोशब्देनात्र सोम उच्यते, तस्य पानार्थम्—इति वि०। गौः सोमः, गच्छति देवानिति, तस्य पीथाय पानाय—इति भ०। ‘पृथिवीन्द्रियादीनां रक्षणाय इति ऋ० १।१९।१ भाष्ये द०।