Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1599

1875 Mantra
Devata- इन्द्रः Rishi- शुनःशेप आजीगर्तिः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
अ꣣य꣡मु꣢ ते꣣ स꣡म꣢तसि क꣣पो꣡त꣢ इव गर्भ꣣धि꣢म् । व꣢च꣣स्त꣡च्चि꣢न्न ओहसे ॥१५९९॥

अ꣣य꣢म् । उ꣣ । ते । स꣡म् । अ꣣तसि । कपो꣡तः꣢ । इ꣣व । गर्भधि꣢म् । ग꣣र्भ । धि꣢म् । व꣡चः꣢꣯ । तत् । चि꣣त् । नः । ओहसे ॥१५९९॥

Mantra without Swara
अयमु ते समतसि कपोत इव गर्भधिम् । वचस्तच्चिन्न ओहसे ॥

अयम् । उ । ते । सम् । अतसि । कपोतः । इव । गर्भधिम् । गर्भ । धिम् । वचः । तत् । चित् । नः । ओहसे ॥१५९९॥

Samveda - Mantra Number : 1599
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 16; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे उपासक ! (अयम् उ) अयमिन्द्रः परमेश्वरः किल (ते) तवैव वर्तते, यं त्वम् (समतसि) सम्यक् प्राप्नोषि। कथमिव ? (कपोतः इव) पारावतो यथा (गर्भधिम्) गर्भरूपाणाम् अल्पवयस्कानां शिशूनां धारकं स्वावासभूतं नीडं प्राप्नोति तद्वत्। (तत् चित्) तत् खलु (नः) अस्माकम् (वचः) वचनम्, हे उपासक ! त्वम् (ओहसे) वितर्कय, विचारय। [ऊह वितर्के, भ्वादिः। लेटि रूपम्] ॥१॥२ अत्रोपमालङ्कारः ॥१॥
Essence
परमेश्वरेण सहान्तरङ्गं सम्बन्धं संस्थाप्योपासकेन परमेश्वरगुणान् स्वात्मानि धारयितुं प्रयतनीयम् ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके १८३ क्रमाङ्के परमेश्वरं सम्बोधिता। अत्रोपासकः सम्बोध्यते।