Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1598

1875 Mantra
Devata- द्यावापृथिव्यौ Rishi- वामदेवो गौतमः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
म꣣ही꣢ मि꣣त्र꣡स्य꣢ साधथ꣣स्त꣡र꣢न्ती꣣ पि꣡प्र꣢ती ऋ꣣त꣢म् । प꣡रि꣢ य꣣ज्ञं꣡ नि षे꣢꣯दथुः ॥१५९८॥

म꣣ही꣡इति꣢ । मि꣣त्र꣡स्य꣢ । मि꣣ । त्र꣡स्य꣢꣯ । सा꣣धथः । त꣡र꣢꣯न्तीइ꣡ति꣢ । पि꣡प्र꣢꣯ती꣣इ꣡ति꣢ । ऋ꣣त꣢म् । प꣡रि꣢꣯ । य꣣ज्ञ꣢म् । नि । से꣣दथुः ॥१५९८॥

Mantra without Swara
मही मित्रस्य साधथस्तरन्ती पिप्रती ऋतम् । परि यज्ञं नि षेदथुः ॥

महीइति । मित्रस्य । मि । त्रस्य । साधथः । तरन्तीइति । पिप्रतीइति । ऋतम् । परि । यज्ञम् । नि । सेदथुः ॥१५९८॥

Samveda - Mantra Number : 1598
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 16; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे आत्मबुद्धी ! (मही) महत्यौ युवाम् (मित्रस्य) सुहृद्भूतस्य उपासकस्य (साधथः) योगसाधनां पूरयतः। (तरन्ती) योगविघ्नान् पारयन्त्यौ (ऋतम्) सत्यम् (पिप्रती) प्रपूरयन्त्यौ युवाम् (यज्ञम्) योगिनो योगयज्ञम् (परि निषेदथुः) परिनिषीदथः, परिव्याप्नुथः ॥३॥२
Essence
जीवात्मानं विना बुद्धिर्बुद्धिं च विना जीवात्मा योगं साद्धुमकिञ्चित्करौ खलु। उभौ परस्परं मिलित्वैव योगयज्ञं पूर्तिं नयतः ॥३॥
Subject
अथोभयोराश्रयेण योगसिद्धिमाह।