Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1595

1875 Mantra
Devata- विश्वे देवाः Rishi- ऋजिश्वा भारद्वाजः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
उ꣡प꣢ नः सू꣣न꣢वो꣣ गि꣡रः꣢ शृ꣣ण्व꣢न्त्व꣣मृ꣡त꣢स्य꣣ ये꣢ । सु꣣मृडीका꣡ भ꣢वन्तु नः ॥१५९५॥

उ꣡प꣢ । नः । सून꣡वः꣢ । गि꣡रः꣢ । शृ꣣ण्व꣡न्तु꣢ । अ꣣मृ꣡त꣢स्य । अ꣣ । मृ꣡त꣢꣯स्य । ये । सु꣣मृडीकाः꣢ । सु꣣ । मृडीकाः꣢ । भ꣣वन्तु । नः ॥१५९५॥

Mantra without Swara
उप नः सूनवो गिरः शृण्वन्त्वमृतस्य ये । सुमृडीका भवन्तु नः ॥

उप । नः । सूनवः । गिरः । शृण्वन्तु । अमृतस्य । अ । मृतस्य । ये । सुमृडीकाः । सु । मृडीकाः । भवन्तु । नः ॥१५९५॥

Samveda - Mantra Number : 1595
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 16; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
ये (नः) अस्माकम् (सूनवः) सन्तानाः स्युः, ते (अमृतस्य) नाशरहितस्य परमेश्वरस्य नित्यस्य वेदस्य वा (गिरः) वाचः (उप शृण्वन्तु) अर्थबोधपूर्वकं गुरुमुखादाकर्णयन्तु। एवं विद्वांसो भूत्वा (नः) अस्मभ्यम् (सुमृडीकाः) सुष्ठु सुखकराः (भवन्तु) जायन्ताम् ॥१॥२
Essence
आचार्यमुखात् सर्वाणि वेदादिशास्त्राण्यधीत्य सर्वासु व्यावहारिकविद्यासु ब्रह्मविद्यायां च ये पारंगता भवन्ति त एव स्वात्मानं समाजं च सुखयितुं शक्नुवन्ति ॥१॥
Subject
अस्मिन्नेकर्चे सूक्ते सन्तानाः कीदृशा भवेयुरिति विषयमाह।