Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1594

1875 Mantra
Devata- मरुतः Rishi- गोतमो राहूगणः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
श꣣शमान꣡स्य꣢ वा नरः꣣ स्वे꣡द꣢स्य सत्यशवसः । वि꣣दा꣡ काम꣢꣯स्य꣣ वे꣡न꣢तः ॥१५९४॥

श꣣शमान꣡स्य꣢ । वा꣣ । नरः । स्वे꣡द꣢꣯स्य । स꣣त्यशवसः । सत्य । शवसः । विद꣢ । का꣡म꣢꣯स्य । वे꣡न꣢꣯तः ॥१५९४॥

Mantra without Swara
शशमानस्य वा नरः स्वेदस्य सत्यशवसः । विदा कामस्य वेनतः ॥

शशमानस्य । वा । नरः । स्वेदस्य । सत्यशवसः । सत्य । शवसः । विद । कामस्य । वेनतः ॥१५९४॥

Samveda - Mantra Number : 1594
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 16; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (नरः) नेतारः मरुतो विद्वांसो जनाः ! यूयम् (शशमानस्य) द्रुतगत्या प्रयतमानस्य। [शश प्लुतगतौ, भ्वादिः।] (स्वेदस्य) स्विन्नगात्रस्य, (सत्यशवसः) सत्यबलस्य, (वेनतः वा) महत्त्वाकाङ्क्षायुक्तस्य च जनस्य। [वेनतिः कान्तिकर्मा। निघं० २।६। वा इति समुच्चये। निरु० १।५।] (कामस्य) कामम् अभीप्सितम्। [अत्र कर्मणि षष्ठी।] (विद) जानीत, पूरयत च। [संहितायां द्व्यचोऽतस्तिङः। अ० ६।३।१३५ इति दीर्घः] ॥१॥२
Essence
परिश्रमेण स्विन्नगात्रस्य सत्यविज्ञानस्य सत्यबलस्य सत्यकर्मण एव जनस्य महत्त्वाकाङ्क्षाः सिध्यन्ति, नालसस्य ॥१॥
Subject
अस्मिन्नेकर्चे सूक्ते विद्वांसो जनाः सम्बोध्यन्ते।