Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1593

1875 Mantra
Devata- पूषा Rishi- भरद्वाजो बार्हस्पत्यः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
उ꣣त꣡ नो꣢ गो꣣ष꣢णिं꣣ धि꣡य꣢मश्व꣣सां꣡ वा꣢ज꣣सा꣢मु꣣त꣢ । नृ꣣व꣡त्कृ꣢णुह्यू꣣त꣡ये꣢ ॥१५९३॥

उ꣣त꣢ । नः꣣ । गोष꣡णि꣢म् । गो꣣ । स꣡नि꣢꣯म् । धि꣡य꣢꣯म् । अ꣣श्वसा꣢म् । अ꣣श्व । सा꣢म् । वा꣣जसा꣢म् । वा꣣ज । सा꣢म् । उ꣣त꣢ । नृ꣣व꣢त् । कृ꣣णुहि । ऊत꣡ये꣢ ॥१५९३॥

Mantra without Swara
उत नो गोषणिं धियमश्वसां वाजसामुत । नृवत्कृणुह्यूतये ॥

उत । नः । गोषणिम् । गो । सनिम् । धियम् । अश्वसाम् । अश्व । साम् । वाजसाम् । वाज । साम् । उत । नृवत् । कृणुहि । ऊतये ॥१५९३॥

Samveda - Mantra Number : 1593
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 16; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे पूषन् ! हे पुष्टिप्रद जगदीश्वर ! त्वम् (ऊतये) रक्षायै (नः) अस्मभ्यम् (गोषणिम्) गवाम् अन्तःप्रकाशानां सनित्रीं संभक्त्रीम्, (उत) अपि च (अश्वसाम्) इन्द्रियबलानां सनित्रीं संभक्त्रीम्, (उत) अपि च (वाजसाम्) वाजानां प्राणबलानां सनित्रीं संभक्त्रीम्, अपि च (नृवत्) नृवतीं पुरुषार्थयुक्ताम् (धियम्) प्रज्ञाम् (कृणुहि) कुरु ॥१॥२
Essence
परमेश्वरोपासनेन मनुष्या आत्मबलमिन्द्रयबलं प्राणबलं प्रज्ञाबलं पुरुषार्थबलं च प्राप्तुमर्हन्ति ॥१॥
Subject
अस्मिन्नेकर्चे सूक्ते पूषा परमेश्वरः प्रार्थ्यते।