Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1592

1875 Mantra
Devata- पवमानः सोमः Rishi- अनानतः पारुच्छेपिः Chhand- अत्यष्टिः Swara- गान्धारः
Mantra with Swara
त्व꣢ꣳ ह꣣ त्य꣡त्प꣢णी꣣नां꣡ वि꣢दो꣣ व꣢सु꣣ सं꣢ मा꣣तृ꣡भि꣢र्मर्जयसि꣣ स्व꣡ आ दम꣢꣯ ऋ꣣त꣡स्य꣢ धी꣣ति꣢भि꣣र्द꣡मे꣢ । प꣣राव꣢तो꣣ न꣢꣫ साम꣣ त꣢꣫द्यत्रा꣣ र꣡ण꣢न्ति धी꣣त꣡यः꣢ । त्रि꣣धा꣡तु꣢भि꣣र꣡रु꣢षीभि꣣र्व꣡यो꣢ दधे꣣ रो꣡च꣢मानो꣣ व꣡यो꣢ दधे ॥१५९२॥

त्व꣢म् । ह꣣ । त्य꣢त् । प꣣णीना꣢म् । वि꣣दः । व꣡सु꣢꣯ । सम् । मा꣣तृ꣡भिः꣢ । म꣣र्जयसि । स्वे꣢ । आ । द꣡मे꣢꣯ । ऋ꣣त꣡स्य꣢ । धी꣣ति꣡भिः꣢ । द꣡मे꣢꣯ । प꣣राव꣡तः꣢ । न । सा꣡म꣢꣯ । तत् । य꣡त्र꣢꣯ । र꣡ण꣢꣯न्ति । धी꣣त꣡यः꣢ । त्रि꣣धा꣡तु꣢भिः । त्रि꣣ । धा꣡तु꣢꣯भिः । अ꣡रु꣢꣯षीभिः । व꣡यः꣢꣯ । द꣣धे । रो꣡च꣢मानः । व꣡यः꣢꣯ । द꣣धे ॥१५९२॥

Mantra without Swara
त्वꣳ ह त्यत्पणीनां विदो वसु सं मातृभिर्मर्जयसि स्व आ दम ऋतस्य धीतिभिर्दमे । परावतो न साम तद्यत्रा रणन्ति धीतयः । त्रिधातुभिररुषीभिर्वयो दधे रोचमानो वयो दधे ॥

त्वम् । ह । त्यत् । पणीनाम् । विदः । वसु । सम् । मातृभिः । मर्जयसि । स्वे । आ । दमे । ऋतस्य । धीतिभिः । दमे । परावतः । न । साम । तत् । यत्र । रणन्ति । धीतयः । त्रिधातुभिः । त्रि । धातुभिः । अरुषीभिः । वयः । दधे । रोचमानः । वयः । दधे ॥१५९२॥

Samveda - Mantra Number : 1592
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 16; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे सोम शान्त उपासक ! (त्वं ह) त्वं खलु (पणीनां त्यत् वसु) दुर्विचाररूपैः पणिभिः दस्युभिः अपहृतं तत् सद्विचाररूपं धनम् (विदः) अविदः पुनः प्राप्नोषि। (मातृभिः) मातृरूपाभिः वेदवाग्भिः स्वात्मानम् (संमर्जयसि) संशोधयसि समलङ्करोषि वा। (स्वे) स्वकीये (दमे) इन्द्रियदमनरूपे कार्ये (आ) आतिष्ठसि। (ऋतस्य) सत्यस्य (धीतिभिः) धारणाभिः सह (दमे) गृहे (आ) आगच्छसि, (यत्र) यस्मिन् गृहे (परावतः) दूरदेशात् (न) यथा (साम) सामसंगीतं श्रूयते, तथैव (धीतयः) स्तुतिवाचः (रणन्ति) शब्दायन्ते। असौ उपासकः (त्रिधातुभिः) पूर्वं पूर्वं बलीयांसः सत्त्वरजस्तमोरूपा धातवो गुणाः यासु ताभिः (अरुषीभिः) आरोचमानाभिः दीप्तिभिः (वयः) आनन्दरसम् (दधे) स्वात्मनि धत्ते, (रोचमानः) तेजोभिर्भासमानः (वयः) जीवनम् (दधे) धत्ते ॥३॥ अत्र यमकम् उपमालङ्कारश्च ॥३॥
Essence
परमेश्वरस्योपासकोऽन्तःप्रकाशं जितेन्द्रियत्वमानन्दरसं च प्राप्य चिरं मोदते ॥३॥ अस्मिन् खण्डे परमात्मनो नृपतेराचार्यस्य स्वात्मप्रबोधनस्योपासकस्योपलब्धेश्च वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥
Subject
अथोपासकस्योपलब्धिं वर्णयति।