Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1591

1875 Mantra
Devata- पवमानः सोमः Rishi- अनानतः पारुच्छेपिः Chhand- अत्यष्टिः Swara- गान्धारः
Mantra with Swara
प्रा꣢ची꣣म꣡नु꣢ प्र꣣दि꣡शं꣢ याति꣣ चे꣡कि꣢त꣣त्स꣢ꣳ र꣣श्मि꣡भि꣢र्यतते दर्श꣣तो꣢꣫ रथो꣣ दै꣡व्यो꣢ दर्श꣣तो꣡ रथः꣢꣯ । अ꣡ग्म꣢न्नु꣣क्था꣢नि꣣ पौ꣢꣫ꣳस्येन्द्रं꣣ जै꣡त्रा꣢य हर्षयन् । व꣡ज्र꣢श्च꣣ य꣡द्भव꣢꣯थो꣣ अ꣡न꣢पच्युता स꣣म꣡त्स्वन꣢꣯पच्युता ॥१५९१॥

प्रा꣡ची꣢꣯म् । अ꣡नु꣢꣯ । प्र꣣दि꣡श꣢म् । प्र꣣ । दि꣡श꣢꣯म् । या꣣ति । चे꣡कि꣢꣯तत् । सम् । र꣣श्मि꣡भिः꣢ । य꣣तते । दर्शतः꣢ । र꣡थः꣢꣯ । दै꣡व्यः꣢꣯ । द꣣र्शतः꣢ । र꣡थः꣢꣯ । अ꣡ग्म꣢꣯न् । उ꣣क्था꣡नि꣢ । पौ꣡ꣳस्या꣢꣯ । इ꣡न्द्र꣢꣯म् । जै꣡त्रा꣢꣯य । ह꣣र्षयन् । व꣡ज्रः꣢꣯ । च꣣ । य꣢त् । भ꣡व꣢꣯थः । अ꣡न꣢꣯पच्युता । अन् । अ꣣पच्युता । सम꣡त्सु꣢ । स꣣ । म꣡त्सु । अ꣡न꣢꣯पच्युता । अन् । अ꣣पच्युता ॥१५९१॥

Mantra without Swara
प्राचीमनु प्रदिशं याति चेकितत्सꣳ रश्मिभिर्यतते दर्शतो रथो दैव्यो दर्शतो रथः । अग्मन्नुक्थानि पौꣳस्येन्द्रं जैत्राय हर्षयन् । वज्रश्च यद्भवथो अनपच्युता समत्स्वनपच्युता ॥

प्राचीम् । अनु । प्रदिशम् । प्र । दिशम् । याति । चेकितत् । सम् । रश्मिभिः । यतते । दर्शतः । रथः । दैव्यः । दर्शतः । रथः । अग्मन् । उक्थानि । पौꣳस्या । इन्द्रम् । जैत्राय । हर्षयन् । वज्रः । च । यत् । भवथः । अनपच्युता । अन् । अपच्युता । समत्सु । स । मत्सु । अनपच्युता । अन् । अपच्युता ॥१५९१॥

Samveda - Mantra Number : 1591
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 16; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
परमेश्वरस्य सख्यं प्राप्य जीवः (चेकितत्) विज्ञानवान् सन् (प्राचीम् प्रदिशम्) प्रकृष्टां दिशम् (अनुयाति) अनुधावति। (दर्शतः) द्रष्टा, (रथः) रथ इव रंहणशीलः सः (रश्मिभिः) तेजःकिरणैः (संयतते) संगच्छते। अस्य (रथः) देहरूपः रथः (दैव्यः) देवेभ्यः सज्जनेभ्यो हितः, (दर्शतः) दर्शनीयश्च जायते। सोमस्य शुभगुणप्रेरकस्य परमात्मनः उपासनया (उक्थानि) प्रशंस्यानि (पौंस्या) पौंस्यानि बलानि (इन्द्रम्) जीवात्मानम् (अग्मन्) प्राप्नुवन्ति, तं च (जैत्राय) विजयाय (हर्षयन्) हर्षयन्ति उत्साहयन्ति। [हृष तुष्टौ, णिचि लङि प्रथमबहुवचने रूपम्। अडागमाभावश्छान्दसः।] (यत्) यस्मात्, हे सोम सद्गुणप्रेरक जगदीश्वर ! त्वम् (वज्रः च) वज्रोपलक्षितं त्वदीयं दण्डप्रदानरूपं सामर्थ्यं च उभौ युवाम् (अनपच्युता) अनपच्युतौ अस्खलितौ (समत्सु) देवासुरसंग्रामेषु (अनपच्युता) अप्रतिहतवीर्यौ (भवथः) जायेथे ॥२॥
Essence
परमेश्वरस्य सखा शत्रुभिरपराजितः सन् सदैवोत्कर्षं प्राप्नोति ॥२॥
Subject
अथ परमात्मोपासनया जीवः किं प्राप्नोतीत्युच्यते।