Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1590

1875 Mantra
Devata- पवमानः सोमः Rishi- अनानतः पारुच्छेपिः Chhand- अत्यष्टिः Swara- गान्धारः
Mantra with Swara
अ꣣या꣢ रु꣣चा꣡ हरि꣢꣯ण्या पुना꣣नो꣢꣫ विश्वा꣣ द्वे꣡षा꣢ꣳसि तरति स꣣यु꣡ग्व꣢भिः꣣ सू꣢रो꣣ न꣢ स꣣यु꣡ग्व꣢भिः । धा꣡रा꣢ पृ꣣ष्ठ꣡स्य꣢ रोचते पुना꣣नो꣡ अ꣢रु꣣षो꣡ हरिः꣢꣯ । वि꣢श्वा꣣ य꣢द्रू꣣पा꣡ प꣢रि꣣या꣡स्यृक्व꣢꣯भिः स꣣प्ता꣡स्ये꣢भि꣣रृ꣡क्व꣢भिः ॥१५९०॥

अ꣣या꣢ । रु꣣चा꣢ । ह꣡रि꣢꣯ण्या । पु꣣नानः꣢ । वि꣡श्वा꣢꣯ । द्वे꣡षा꣢꣯ꣳसि । त꣣रति । सयु꣡ग्व꣢भिः । स꣣ । यु꣡ग्व꣢꣯भिः । सू꣡रः꣢꣯ । न । स꣣यु꣡ग्व꣢भिः । स꣣ । यु꣡ग्व꣢꣯भिः । धा꣡रा꣢꣯ । पृ꣣ष्ठ꣡स्य꣢ । रो꣣चते । पुनानः꣢ । अ꣣रुषः꣢ । ह꣡रिः꣢꣯ । वि꣡श्वा꣢꣯ । यत् । रू꣣पा꣢ । प꣣रि꣡यासि꣢ । प꣣रि । या꣡सि꣢꣯ । ऋ꣡क्व꣢꣯भिः । स꣣प्ता꣡स्ये꣢भिः । स꣣प्त꣢ । आ꣣स्येभिः । ऋ꣡क्व꣢꣯भिः ॥१५९०॥

Mantra without Swara
अया रुचा हरिण्या पुनानो विश्वा द्वेषाꣳसि तरति सयुग्वभिः सूरो न सयुग्वभिः । धारा पृष्ठस्य रोचते पुनानो अरुषो हरिः । विश्वा यद्रूपा परियास्यृक्वभिः सप्तास्येभिरृक्वभिः ॥

अया । रुचा । हरिण्या । पुनानः । विश्वा । द्वेषाꣳसि । तरति । सयुग्वभिः । स । युग्वभिः । सूरः । न । सयुग्वभिः । स । युग्वभिः । धारा । पृष्ठस्य । रोचते । पुनानः । अरुषः । हरिः । विश्वा । यत् । रूपा । परियासि । परि । यासि । ऋक्वभिः । सप्तास्येभिः । सप्त । आस्येभिः । ऋक्वभिः ॥१५९०॥

Samveda - Mantra Number : 1590
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 16; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
एष सोमः परमेश्वरः (अया) अनया (हरिण्या) कष्टहारिण्या (रुचा) कान्त्या (पुनानः) पवित्रतामापादयन् (सयुग्वभिः) सहयोगिभिः मनोबुद्ध्यादिभिः, उपासकस्य (विश्वा द्वेषांसि) सर्वाणि दुरितानि (तरति) दूरीकरोति। कथमिव ? (सूरः न) सूर्यो यथा (सयुग्वभिः) सहयोगिभिः रश्मिभिः (विश्वा द्वेषांसि) समस्तानि तमांसि (तरति) दूरीकरोति। (पृष्ठस्य) आनन्दसेक्तुः परमेश्वरस्य। [पृषु सेचने, औणादिकः थक् प्रत्ययः।] (धारा) पवित्रतायाः धारा (रोचते) रुचिकरी भवति। हे परमेश ! (अरुषः) आरोचमानः (हरिः) दुःखहर्ता त्वम् तया धारया (पुनानः) पवित्रीकुर्वन् भवसि, (यत्) यदा (ऋक्वभिः) वेदपाठिभिः (सप्तास्यैः ऋक्वभिः) गायत्र्यादिसप्तच्छन्दोमयैः वेदमन्त्रैश्च गीयमानः त्वम् (विश्वा रूपा) विश्वानि रूपाणि (परि यासि) परिप्राप्नोषि, विभिन्नरूपेषु वर्ण्यसे इत्यर्थः ॥१॥ अत्रोपमालङ्कारो यमकं च ॥१॥
Essence
यथा सूर्यस्तमांस्यपहरति तथा जगदीश्वरः पुरुषार्थिनामुपासकानां दुःखदुर्व्यसनादीन्यपहरति ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ४६३ क्रमाङ्के जीवात्मविषये व्याख्याता। अत्र परमात्मविषयो वर्ण्यते।