Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1589

1875 Mantra
Devata- विश्वकर्मा Rishi- विश्वकर्मा भौवनः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
वि꣡श्व꣢कर्मन्ह꣣वि꣡षा꣢ वावृधा꣣नः꣢ स्व꣣यं꣡ य꣢जस्व त꣣न्व꣢३ꣳ स्वा꣡ हि ते꣢꣯ । मु꣡ह्य꣢न्त्व꣣न्ये꣢ अ꣣भि꣢तो꣣ ज꣡ना꣢स इ꣣हा꣡स्माकं꣢꣯ म꣣घ꣡वा꣢ सू꣣रि꣡र꣢स्तु ॥१५८९॥

वि꣡श्व꣢꣯कर्मन् । वि꣡श्व꣢꣯ । क꣣र्मन् । हवि꣡षा꣢ । वा꣣वृधानः꣢ । स्व꣣य꣢म् । य꣣जस्व । तन्व꣢म् । स्वा । हि । ते꣣ । मु꣡ह्य꣢꣯न्तु । अ꣣न्ये꣢ । अ꣣न् । ये꣢ । अ꣣भि꣡तः꣢ । ज꣡ना꣢꣯सः । इ꣣ह꣢ । अ꣣स्मा꣡क꣢म् । म꣣घ꣡वा꣢ । सू꣡रिः꣢꣯ । अ꣣स्तु ॥१५८९॥

Mantra without Swara
विश्वकर्मन्हविषा वावृधानः स्वयं यजस्व तन्व३ꣳ स्वा हि ते । मुह्यन्त्वन्ये अभितो जनास इहास्माकं मघवा सूरिरस्तु ॥

विश्वकर्मन् । विश्व । कर्मन् । हविषा । वावृधानः । स्वयम् । यजस्व । तन्वम् । स्वा । हि । ते । मुह्यन्तु । अन्ये । अन् । ये । अभितः । जनासः । इह । अस्माकम् । मघवा । सूरिः । अस्तु ॥१५८९॥

Samveda - Mantra Number : 1589
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 16; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (विश्वकर्मन्) विश्वेषां शारीरिकाणां कर्मणां कर्तः जीवात्मन् ! (हविषा२) सद्गुणाधानेन (वावृधानः) वृद्धः त्वम् (स्वयम्) स्वयमेव (तन्वम्) तनूम् (यजस्व) यज्ञकर्मसु नियोजय, (हि) यतः, सा (ते) तव (स्वा) स्वकीया वर्तते, तत्र तवाधिकारोऽस्ति। (अभितः) सर्वतः स्थिताः (अन्ये) इतरे (जनासः) जाताः बाह्या आन्तराश्च शत्रवः (मुह्यन्तु) मोहं प्राप्नुवन्तु। (मघवा) ऐश्वर्यशाली जगदीश्वरः (इह) अस्मिन् जगति (अस्माकम्) अस्मदीयः (सूरिः) प्रेरकः (अस्तु) जायताम् ॥१॥३
Essence
जीवस्येदं कर्तव्यं यत् स स्वकीयं देहं शुभकर्मसु नियुज्य परमात्मानं पूजयन्नभ्युदयं निःश्रेयसं च प्राप्नुयात् ॥१॥
Subject
अस्मिन्नेकर्चे सूक्ते स्वकीयोऽन्तरात्मा प्रोद्बोध्यते।