Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1587

1875 Mantra
Devata- इन्द्रः Rishi- मेध्यातिथिः काण्वः Chhand- बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) Swara- मध्यमः
Mantra with Swara
इ꣢न्द्र꣣मि꣢द्दे꣣व꣡ता꣢तय꣣ इ꣡न्द्रं꣢ प्र꣣꣬यत्य꣢꣯ध्व꣣रे꣢ । इ꣡न्द्र꣢ꣳ समी꣣के꣢ व꣣नि꣡नो꣢ हवामह꣣ इ꣢न्द्रं꣣ ध꣡न꣢स्य सा꣣त꣡ये꣢ ॥१५८७॥

इ꣡न्द्र꣢꣯म् । इत् । दे꣣व꣡ता꣢तये । इ꣡न्द्र꣢꣯म् । प्र꣡यति꣢꣯ । प्र꣣ । यति꣢ । अ꣣ध्वरे꣢ । इ꣡न्द्र꣢꣯म् । स꣣मीके꣢ । स꣣म् । ईके꣢ । व꣣नि꣡नः꣢ । ह꣣वामहे । इ꣡न्द्र꣢꣯म् । ध꣡न꣢꣯स्य । सा꣣त꣡ये꣢ ॥१५८७॥

Mantra without Swara
इन्द्रमिद्देवतातय इन्द्रं प्रयत्यध्वरे । इन्द्रꣳ समीके वनिनो हवामह इन्द्रं धनस्य सातये ॥

इन्द्रम् । इत् । देवतातये । इन्द्रम् । प्रयति । प्र । यति । अध्वरे । इन्द्रम् । समीके । सम् । ईके । वनिनः । हवामहे । इन्द्रम् । धनस्य । सातये ॥१५८७॥

Samveda - Mantra Number : 1587
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 16; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(इन्द्रम् इत्) जगदीश्वरमेव (देवतातये) यज्ञारम्भाय। [देवताता इति यज्ञनामसु पठितम्। निघं० ३।१७।] (इन्द्रम्) जगदीश्वरमेव (अध्वरे) यज्ञे (प्रयति) प्रवृत्ते सति, (इन्द्रम्) जगदीश्वरमेव (समीके) यज्ञे समाप्ते सति, (इन्द्रम्) जगदीश्वरमेव (धनस्य) यज्ञफलस्य (सातये) प्राप्तये (वनिनः) भक्तिमन्तो वयम् (हवामहे) आह्वयामः ॥१॥
Essence
अग्निहोत्रादारभ्याश्वमेधपर्यन्तो देवपूजासंगतिकरणदानात्मको वा योऽपि यज्ञ आयोज्यते तत्र सदा परमेश्वरस्य स्मरणेन स फलवान् जायते ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके २४९ क्रमाङ्के जगदीश्वरनृपत्योर्विषये व्याख्याता। अत्र यज्ञसाफल्याय जगदीश्वर आहूयते।