Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1585

1875 Mantra
Devata- वरुणः Rishi- शुनःशेप आजीगर्तिः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
इ꣣मं꣡ मे꣢ वरुण श्रुधी꣣ ह꣡व꣢म꣣द्या꣡ च꣢ मृडय । त्वा꣡म꣢व꣣स्यु꣡रा च꣢꣯के ॥१५८५॥

इ꣣म꣢म् । मे꣣ । वरुण । श्रुधि । ह꣡व꣢꣯म् । अ꣣द्य꣢ । अ꣣ । द्य꣢ । च꣣ । मृडय । त्वा꣢म् । अ꣣वस्युः꣢ । आ । च꣣के ॥१५८५॥

Mantra without Swara
इमं मे वरुण श्रुधी हवमद्या च मृडय । त्वामवस्युरा चके ॥

इमम् । मे । वरुण । श्रुधि । हवम् । अद्य । अ । द्य । च । मृडय । त्वाम् । अवस्युः । आ । चके ॥१५८५॥

Samveda - Mantra Number : 1585
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 16; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (वरुण) दोषनिवारक वरणीय परमात्मन् राजन् आचार्य वा ! (इमं मे हवम्) एतद् मदीयम् आह्वानम् (श्रुधि) शृणु। [शृणोतेः ‘श्रुशृणुपॄकृवृभ्यश्छन्दसि।’ अ० ६।४।१०२ इति हेर्धिरादेशः। संहितायाम् ‘अन्येषामपि दृश्यते’। अ० ६।३।१३७ इति दीर्घः।] (अद्य) अस्मिन् दिने (मृडय च) सुखय च। [संहितायाम् अद्या इत्यत्र ‘निपातस्य च’ अ० ६।३।१३६ इति दीर्घः।] (अवस्युः) त्वद्रक्षणेच्छुः अहम्। [अवः रक्षणम् आत्मनः कामयते इति अवस्युः, क्यचि ‘क्याच्छन्दसि’ अ० ३।२।१७० इति उः प्रत्ययः।] (त्वाम्) परमात्मानं राजानम् आचार्यं वा (आचके) कामये। [आचके इति कान्तिकर्मा। निघं० २।६।] ॥१॥२
Essence
मनुष्यैर्यथायोग्यं परमात्मानं राजानमाचार्यं च सम्प्रार्थ्य स्वकीयान् दोषान् निवार्य सद्गुणान् सत्कर्माणि च स्वीकृत्योत्कर्षः सम्पादनीयः ॥१॥
Subject
परमात्मा राजाऽऽचार्यश्च प्रार्थ्यते।