Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1583

1875 Mantra
Devata- अग्निः Rishi- सौभरि: काण्व: Chhand- बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) Swara- मध्यमः
Mantra with Swara
यो꣢꣫ विश्वा꣣ द꣡य꣢ते꣣ व꣢सु꣣ हो꣡ता꣢ म꣣न्द्रो꣡ जना꣢꣯नाम् । म꣢धो꣣र्न꣡ पात्रा꣢꣯ प्रथ꣣मा꣡न्य꣢स्मै꣣ प्र꣡ स्तोमा꣢꣯ यन्त्व꣣ग्न꣡ये꣢ ॥१५८३॥

यः꣢ । वि꣡श्वा꣢꣯ । द꣡य꣢꣯ते । व꣡सु꣢꣯ । हो꣡ता꣢꣯ । म꣣न्द्रः꣢ । ज꣡ना꣢꣯नाम् । म꣡धोः꣢꣯ । न । पा꣡त्रा꣢꣯ । प्र꣣थमा꣡नि꣢ । अ꣣स्मै । प्र꣢ । स्तो꣡माः꣢꣯ । य꣣न्तु । अग्न꣡ये꣢ ॥१५८३॥

Mantra without Swara
यो विश्वा दयते वसु होता मन्द्रो जनानाम् । मधोर्न पात्रा प्रथमान्यस्मै प्र स्तोमा यन्त्वग्नये ॥

यः । विश्वा । दयते । वसु । होता । मन्द्रः । जनानाम् । मधोः । न । पात्रा । प्रथमानि । अस्मै । प्र । स्तोमाः । यन्तु । अग्नये ॥१५८३॥

Samveda - Mantra Number : 1583
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 16; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(होता) ब्रह्माण्डयज्ञस्य शिक्षायज्ञस्य वा सम्पादकः, (जनानाम्) मनुष्याणाम् (मन्द्रः) आनन्दजनकः (यः) परमात्मा आचार्यो वा (विश्वा वसु) विश्वानि वसूनि सर्वाणि आध्यात्मिकानि धनानि विद्याधनानि वा (दयते) ददाति। (अस्मै अग्नये) एतादृशाय अग्रनायकाय परमात्मने आचार्याय वा (प्रथमानि) श्रेष्ठानि (मधोः पात्रा न) मधुना पूर्णानि पात्राणि इव (स्तोमाः) धन्यवादवचनानि (प्र यन्तु) प्र गच्छन्तु ॥१॥ अत्रोपमालङ्कारः ॥१॥
Essence
यथा परमेश्वरः पुरुषार्थिने भौतिकान्याध्यात्मिकानि च धनानि ददाति तथाऽऽचार्यः शिष्येभ्यो विद्याधनानि प्रयच्छतीति तौ सर्वैरभिनन्दनीयौ ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ४४ क्रमाङ्के परमात्मस्तुतिविषये व्याख्याता। अत्र युगपत् परमात्मानमाचार्यं चोद्दिश्य ब्रूते।