Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1582

1875 Mantra
Devata- इन्द्रः Rishi- भर्गः प्रागाथः Chhand- बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) Swara- पञ्चमः
Mantra with Swara
त्वं꣢ पु꣣रू꣢ स꣣ह꣡स्रा꣢णि श꣣ता꣡नि꣢ च यू꣣था꣢ दा꣣ना꣡य꣢ मꣳहसे । आ꣡ पु꣢रन्द꣣रं꣡ च꣢कृम꣣ वि꣡प्र꣢वचस꣣ इ꣢न्द्रं꣣ गा꣢य꣣न्तो꣡ऽव꣢से ॥१५८२॥

त्व꣢म् । पु꣣रु꣢ । स꣣ह꣡स्रा꣢णि । श꣣ता꣡नि꣢ । च꣣ । यूथा꣢ । दा꣣ना꣡य꣢ । म꣣ꣳहसे । आ꣢ । पु꣣रन्दर꣢म् । पु꣣रम् । दर꣢म् । च꣣कृम । वि꣡प्र꣢꣯वचसः । वि꣡प्र꣢꣯ । व꣣चसः । इ꣡न्द्र꣢꣯म् । गा꣡य꣢꣯न्तः । अ꣡व꣢꣯से ॥१५८२॥

Mantra without Swara
त्वं पुरू सहस्राणि शतानि च यूथा दानाय मꣳहसे । आ पुरन्दरं चकृम विप्रवचस इन्द्रं गायन्तोऽवसे ॥

त्वम् । पुरु । सहस्राणि । शतानि । च । यूथा । दानाय । मꣳहसे । आ । पुरन्दरम् । पुरम् । दरम् । चकृम । विप्रवचसः । विप्र । वचसः । इन्द्रम् । गायन्तः । अवसे ॥१५८२॥

Samveda - Mantra Number : 1582
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 16; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे इन्द्र ! हे परमैश्वर्यशालिन् परमात्मदेव ! (त्वम्) परमदानी त्वम् (पुरू) पुरूणि बहूनि (सहस्राणि) सहस्र-संख्यकानि, (शतानि च) शत-सहस्राणि च, लक्षसंख्यकानि इत्यर्थः (यूथा) गोयूथानि अध्यात्मप्रकाशसमूहान् (दानाय) अन्येभ्यः प्रदानाय (मंहसे) योगाभ्यासिभ्यः अस्मभ्यम् ददासि। [महतिर्दानकर्मा। निघं० ३।२०।] (विप्रवचसः) प्राज्ञवचनाः वयम् (गायन्तः) स्तुतिं कीर्तयन्तः (अवसे) रक्षार्थम् (पुरन्दरम्) विपत्पुरीणां विदारयितारम् (इन्द्रम्) वीरं त्वाम् (आ चकृम) स्वकीयं सखायं कुर्मः ॥२॥
Essence
निरन्तरं योगाभ्याससाधनया परमात्मध्यानेन प्रणवजपादिना चानन्तप्रकाशसमूहाः पुरतः समायान्ति येषां चाकचक्येन चमत्कृतः साधकः परमां स्थितिं लभते ॥२॥
Subject
अथ पुनरपि परमात्मानं सम्बोधयति।