Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1581

1875 Mantra
Devata- इन्द्रः Rishi- भर्गः प्रागाथः Chhand- बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) Swara- मध्यमः
Mantra with Swara
त्व꣢꣫ꣳ ह्येहि꣣ चे꣡र꣢वे वि꣣दा꣢꣫ भगं꣣ व꣡सु꣢त्तये । उ꣡द्वा꣢वृषस्व मघव꣣न् ग꣡वि꣢ष्टय꣣ उ꣢दि꣣न्द्रा꣡श्व꣢मिष्टये ॥१५८१॥

त्व꣢म् । हि । आ । इ꣣हि । चे꣡र꣢꣯वे । वि꣣दाः꣢ । भ꣡ग꣢꣯म् । व꣡सु꣢꣯त्तये । उत् । वा꣢वृषस्व । मघवन् । ग꣡वि꣢꣯ष्टये । गो । इ꣣ष्टये । उ꣢त् । इ꣣न्द्र । अ꣡श्व꣢꣯मिष्टये । अ꣡श्व꣢꣯म् । इ꣣ष्टये ॥१५८१॥

Mantra without Swara
त्वꣳ ह्येहि चेरवे विदा भगं वसुत्तये । उद्वावृषस्व मघवन् गविष्टय उदिन्द्राश्वमिष्टये ॥

त्वम् । हि । आ । इहि । चेरवे । विदाः । भगम् । वसुत्तये । उत् । वावृषस्व । मघवन् । गविष्टये । गो । इष्टये । उत् । इन्द्र । अश्वमिष्टये । अश्वम् । इष्टये ॥१५८१॥

Samveda - Mantra Number : 1581
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 16; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) परमैश्वर्यशालिन् परमात्मन् ! (त्वं हि) त्वं खलु (चेरवे) योगाभ्यासिने मह्यम् (एहि) आगच्छ। (वसुत्तये) वसुदत्तये योगैश्वर्यदानेच्छुकाय मह्यम् (भगम्) योगैश्वर्यम् (विदाः) लम्भय। हे (मघवन्) दानवन् ! त्वम् (गविष्टये) गवाम् अध्यात्मप्रकाशकिरणानाम् इच्छवे मह्यम् (उद्वावृषस्व) अध्यात्मप्रकाशकिरणानाम् उत्सिञ्च। (अश्वमिष्टये) अश्वं प्राणम् इच्छति यः तस्मै मह्यम् (उद्वावृषस्व) प्राणबलम् उत्सिञ्च ॥१॥
Essence
परमेश्वरं प्रति ध्यानेन योगाभ्यासी जनः प्राणानामूर्ध्वारोहणं कुर्वन् विविधान् अध्यात्मप्रकाशान् विविधा योगसिद्धीश्च लब्धुं पारयति ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके २४० क्रमाङ्के परमेश्वरं राजानं च सम्बोधिता। अत्र योगसाधनारतः कश्चित्साधकः परमात्मानं प्रार्थयते।