Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 158

1875 Mantra
Devata- इन्द्रः Rishi- श्रुतकक्षः सुकक्षो वा आङ्गिरसः Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
इ꣡न्द्रा꣢य꣣ म꣡द्व꣢ने सु꣣तं꣡ परि꣢꣯ ष्टोभन्तु नो꣣ गि꣡रः꣢ । अ꣣र्क꣡म꣢र्चन्तु का꣣र꣡वः꣢ ॥१५८॥

इ꣡न्द्रा꣢꣯य । म꣡द्व꣢꣯ने । सु꣣त꣢म् । प꣡रि꣢꣯ । स्तो꣡भन्तु । नः । गि꣡रः꣢꣯ । अ꣣र्क꣢म् । अ꣣र्चन्तु । कार꣡वः꣢ ॥१५८॥

Mantra without Swara
इन्द्राय मद्वने सुतं परि ष्टोभन्तु नो गिरः । अर्कमर्चन्तु कारवः ॥

इन्द्राय । मद्वने । सुतम् । परि । स्तोभन्तु । नः । गिरः । अर्कम् । अर्चन्तु । कारवः ॥१५८॥

Samveda - Mantra Number : 158
(Kauthum) पूर्वार्चिकः: » Prapathak » 2; Ardh Prapathak » 2; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(मद्वने) आनन्दमयाय। माद्यतीति मद्वा, तस्मै। मदी हर्षे धातोः अन्येभ्योऽपि दृश्यते अ० ३।२।७५ इति क्वनिप्। (इन्द्राय) परमैश्वर्यवते परमात्मने (सुतम्) अभिषुतं भक्तिरूपं सोमरसम् (नः) अस्माकम् (गिरः) वाचः (परिष्टोभन्तु) परिवेल्लयन्तु, तरङ्गयन्तु। स्तोभतिः अर्चतिकर्मा। निघं० ३।१४। अर्चनं चात्र तरङ्गणम्। (अर्कम्) अर्चनीयं देवम्। अर्को देवो भवति, यदेनमर्चन्ति। निरु० ५।५। (कारवः) अन्येऽपि स्तोतारः। कारुरिति स्तोतृनाम। निघं० ३।१६। कारुः कर्ता स्तोमानाम्। निरु० ६।५। (अर्चन्तु) संभूय स्तुवन्तु ॥४॥
Essence
आनन्दं प्राप्तुकामोऽहं प्रेमरसपरिप्लुतहृदयः परमानन्दमयाय परमात्मने यान् भक्तिरसान् प्रवाहयामि तेषु मदीयाः स्तुतिवाचस्तरङ्गानिवोत्पादयन्ति। अन्येऽपि स्तोतारस्तथैव परमात्मानमर्चन्तु, येन सर्वमपि वातावरणं भक्तिमयं संगीतैस्तरङ्गितं च सम्पद्येत ॥४॥
Subject
अथ पुनः परमात्मर्चनविषयमाह।
Footnote
१. ऋ० ८।९२।१९, अथ० २०।११०।१, उभयत्र ऋषिः श्रुतकक्षः सुकक्षो वा। साम० ७२२।