Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1579

1875 Mantra
Devata- इन्द्रः Rishi- भर्गः प्रागाथः Chhand- बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) Swara- मध्यमः
Mantra with Swara
श꣣ग्ध्यू꣢३꣱षु꣡ श꣢चीपत꣣ इ꣢न्द्र꣣ वि꣡श्वा꣢भिरू꣣ति꣡भिः꣢ । भ꣢गं꣣ न꣡ हि त्वा꣢꣯ य꣣श꣡सं꣢ वसु꣣वि꣢द꣣म꣡नु꣢ शूर꣣ च꣡रा꣢मसि ॥१५७९॥

श꣣ग्धि꣢ । उ꣣ । सु꣢ । श꣣चीपते । शची । पते । इ꣡न्द्र꣢꣯ । वि꣡श्वा꣢꣯भिः । ऊ꣣ति꣡भिः꣢ । भ꣡ग꣢꣯म् । न । हि । त्वा꣣ । यश꣡स꣢म् । व꣣सुवि꣡द꣢म् । व꣣सु । वि꣡द꣢꣯म् । अ꣡नु꣢꣯ । शू꣣र । च꣡रा꣢꣯मसि ॥१५७९॥

Mantra without Swara
शग्ध्यू३षु शचीपत इन्द्र विश्वाभिरूतिभिः । भगं न हि त्वा यशसं वसुविदमनु शूर चरामसि ॥

शग्धि । उ । सु । शचीपते । शची । पते । इन्द्र । विश्वाभिः । ऊतिभिः । भगम् । न । हि । त्वा । यशसम् । वसुविदम् । वसु । विदम् । अनु । शूर । चरामसि ॥१५७९॥

Samveda - Mantra Number : 1579
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 16; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (शचीपते) प्रज्ञायाः कर्मणश्च स्वामिन् (इन्द्र) मदीय अन्तरात्मन् ! त्वम् (विश्वाभिः) सर्वाभिः (ऊतिभिः) प्रगतिभिः (उ सु) सम्यक् (शग्धि) शक्तो भव। हे (शूर) वीर ! (भगं न) सूर्यमिव (यशसम्) यशस्विनम्, (वसुविदम्) ऐश्वर्याणां प्रापकम् (त्वा) त्वाम्, वयम् (अनु चरामसि) सेवामहे ॥१॥ अत्रोपमालङ्कारः ॥१॥
Essence
स्वात्मानं प्रबोध्यैव मनुष्या उन्नतिं कर्तुं शक्नुवन्ति ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके २५३ क्रमाङ्के परमात्मनृपत्योर्विषये व्याख्याता। अत्र स्वान्तरात्मा प्रबोध्यते।