Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1577

1875 Mantra
Devata- इन्द्राग्नी Rishi- विश्वामित्रो गाथिनः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
इ꣡न्द्रा꣢ग्नी꣣ अ꣡प꣢स꣣स्प꣢꣯र्युप꣣ प्र꣡ य꣢न्ति धी꣣त꣡यः꣢ । ऋ꣣त꣡स्य꣢ प꣣थ्या꣢३ अ꣡नु꣢ ॥१५७७॥

इ꣡न्द्रा꣢꣯ग्नी । इ꣡न्द्र꣢꣯ । अ꣣ग्नीइ꣡ति꣢ । अ꣡प꣢꣯सः । प꣡रि꣢꣯ । उ꣡प꣢꣯ । प्र । य꣣न्ति । धीत꣡यः꣢ । ऋ꣣त꣡स्य꣢ । प꣣थ्याः꣢ । अ꣡नु꣢꣯ ॥१५७७॥

Mantra without Swara
इन्द्राग्नी अपसस्पर्युप प्र यन्ति धीतयः । ऋतस्य पथ्या३ अनु ॥

इन्द्राग्नी । इन्द्र । अग्नीइति । अपसः । परि । उप । प्र । यन्ति । धीतयः । ऋतस्य । पथ्याः । अनु ॥१५७७॥

Samveda - Mantra Number : 1577
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 16; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्राग्नी) जीवात्मपरमात्मानौ ! (धीतयः) ध्यानकर्तारो जनाः (ऋतस्य) सत्यस्य (पथ्याः) मार्गान् (अनु) अनुसरन्तः (अपसः परि) धर्मकर्मणां पारं प्राप्य, युवाम् (उप प्र यन्ति) उप प्राप्नुवन्ति ॥३॥२
Essence
जीवने सत्यमार्गानुगमनं परमेश्वरप्राप्तिश्चेति मनुष्यस्य लक्ष्यम् ॥३॥
Subject
अथ पुनरपि जीवात्मपरमात्मविषय उपदिश्यते।