Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1576

1875 Mantra
Devata- इन्द्राग्नी Rishi- विश्वामित्रो गाथिनः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
इ꣡न्द्रा꣢ग्नी नव꣣तिं꣡ पुरो꣢꣯ दा꣣स꣡प꣢त्नीरधूनुतम् । सा꣣क꣡मेके꣢꣯न꣣ क꣡र्म꣢णा ॥१५७६॥

इ꣡न्द्रा꣢꣯ग्नी । इ꣡न्द्र꣢꣯ । अ꣣ग्नीइ꣡ति꣢ । न꣣वति꣢म् । पु꣡रः꣢꣯ । दा꣣स꣡प꣢त्नीः । दा꣣स꣢ । प꣣त्नीः । अधूनुतम् । साक꣢म् । ए꣡के꣢꣯न । क꣡र्म꣢꣯णा ॥१५७६॥

Mantra without Swara
इन्द्राग्नी नवतिं पुरो दासपत्नीरधूनुतम् । साकमेकेन कर्मणा ॥

इन्द्राग्नी । इन्द्र । अग्नीइति । नवतिम् । पुरः । दासपत्नीः । दास । पत्नीः । अधूनुतम् । साकम् । एकेन । कर्मणा ॥१५७६॥

Samveda - Mantra Number : 1576
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 16; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्राग्नी) जीवात्मपरमात्मानौ ! (एकेन) अद्वितीयेन (कर्मणा) पुरुषार्थेन (साकम्) सह (दासपत्नीः) दासाः कामक्रोधलोभमोहमद- मत्सररूपाः पतयः स्वामिनो यासां ताः (नवतिं पुरः) पञ्चज्ञानेन्द्रियविषयाः पञ्च कर्मेन्द्रियविषयाः तत्तज्जन्या व्याधिस्त्यानसंशयप्रमादालस्याविरति-भ्रान्तिदर्शनालब्धभूमिकत्वानव- स्थितत्वरूपाश्चित्तविक्षेपा नवयोगमार्गान्तरायाः एवं नवतिर्भवन्ति, ताः नवतिं पुरः शत्रुनगरीः, युवाम् (अधूनुतम्) कम्पयथः। [धूञ् कम्पने, लडर्थे लङ्] ॥२॥२
Essence
परमात्मनः सख्येन जीवात्मन उद्बोधनेन च योगाभ्यासनिरतो मानवः सर्वान् योगविघ्नान् निरस्य योगमार्गे साफल्यमधिगन्तुमर्हति ॥२॥
Subject
अथ पुनस्तमेव विषयमाचष्टे।