Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1575

1875 Mantra
Devata- इन्द्राग्नी Rishi- विश्वामित्रो गाथिनः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
प्र꣡ वा꣢मर्चन्त्यु꣣क्थि꣡नो꣢ नीथा꣣वि꣡दो꣢ जरि꣣ता꣡रः꣢ । इ꣡न्द्रा꣢ग्नी꣣ इ꣢ष꣣ आ꣡ वृ꣢णे ॥१५७५॥

प्र꣢ । वा꣣म् । अर्चन्ति । उक्थि꣡नः꣢ । नी꣣थावि꣢दः꣢ । नी꣣थ । वि꣡दः꣢꣯ । ज꣣रिता꣡रः꣢ । इ꣡न्द्रा꣢꣯ग्नी । इ꣡न्द्र꣢꣯ । अ꣣ग्नीइ꣡ति꣢ । इ꣡षः꣢꣯ । आ । वृ꣣णे ॥१५७५॥

Mantra without Swara
प्र वामर्चन्त्युक्थिनो नीथाविदो जरितारः । इन्द्राग्नी इष आ वृणे ॥

प्र । वाम् । अर्चन्ति । उक्थिनः । नीथाविदः । नीथ । विदः । जरितारः । इन्द्राग्नी । इन्द्र । अग्नीइति । इषः । आ । वृणे ॥१५७५॥

Samveda - Mantra Number : 1575
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 16; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्राग्नी) जीवात्मपरमात्मानौ ! (उक्थिनः) गुणप्रशंसकाः, (नीथाविदः) नीतिज्ञाः (जरितारः) स्तोतारः (वाम्) युवाम् (प्र अर्चन्ति) स्तुवन्ति। अहम् युवयोः साहाय्येन (इषः) ज्ञानरसान् आनन्दरसांश्च (आ वृणे) गृह्णामि। [नीथः—णीञ् प्रापणे धातोः ‘हनिकुषिनीरमिकाशिभ्यः क्थन्।’ उ० २।१ इति क्थन् प्रत्ययः।] ॥१॥२
Essence
मनुष्या जीवात्मानमुद्बोध्य परमात्मानं च समभ्यर्च्य दिव्यं ज्ञानमानन्दं चाधिगम्य महतीमुन्नतिं कर्तुं पारयन्ति ॥१॥
Subject
तत्रादौ जीवात्मपरमात्मनोर्विषयमाह।