Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1574

1875 Mantra
Devata- इन्द्रः Rishi- मेध्यातिथिः काण्वः Chhand- बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) Swara- पञ्चमः
Mantra with Swara
अ꣣स्ये꣡दिन्द्रो꣢꣯ वावृधे꣣ वृ꣢ष्ण्य꣣ꣳश꣢वो꣣ म꣡दे꣢ सु꣣त꣢स्य꣣ वि꣡ष्ण꣢वि । अ꣣द्या꣡ तम꣢꣯स्य महि꣣मा꣡न꣢मा꣣य꣡वोऽनु꣢꣯ ष्टुवन्ति पू꣣र्व꣡था꣢ ॥१५७४॥

अ꣣स्य꣡ । इत् । इ꣡न्द्रः꣢꣯ । वा꣣वृधे । वृ꣡ष्ण्य꣢꣯म् । श꣡वः꣢꣯ । म꣡दे꣢꣯ । सु꣣त꣡स्य꣢ । वि꣡ष्ण꣢꣯वि । अ꣡द्य꣢ । अ꣣ । द्य꣢ । तम् । अ꣣स्य । महिमा꣡न꣢म् । आ꣣य꣡वः꣢ । अ꣡नु꣢꣯ । स्तु꣣वन्ति । पूर्व꣡था꣢ ॥१५७४॥

Mantra without Swara
अस्येदिन्द्रो वावृधे वृष्ण्यꣳशवो मदे सुतस्य विष्णवि । अद्या तमस्य महिमानमायवोऽनु ष्टुवन्ति पूर्वथा ॥

अस्य । इत् । इन्द्रः । वावृधे । वृष्ण्यम् । शवः । मदे । सुतस्य । विष्णवि । अद्य । अ । द्य । तम् । अस्य । महिमानम् । आयवः । अनु । स्तुवन्ति । पूर्वथा ॥१५७४॥

Samveda - Mantra Number : 1574
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 16; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(इन्द्रः) विद्यैश्वर्यवान् आचार्यः (अस्य) शिष्यस्य (वृष्ण्यम्) वृषा आत्मा तत्र भवम् (शवः) बलम् (इत्) निश्चयेन (वावृधे) वर्द्धयति। स शिष्यः (सुतस्य) प्राप्तस्य ज्ञानस्य (विष्णवि२) व्यापके (मदे) आनन्दे वर्धते (अस्य) इन्द्रस्य आचार्यस्य (तम् महिमानम्) तत् महत्त्वम् (आयवः) मनुष्याः (पूर्वथा) पूर्वस्मिन् काल इव। [अत्र ‘प्रत्नपूर्व- विश्वेमात्थाल् छन्दसि’ अ० ५।३।१११ इति इवार्थे थाल् प्रत्ययः।] (अद्य) अद्यापि। [संहितायां निपातत्वाद् दीर्घः] (अनुष्टुवन्ति) प्रशंसन्ति ॥२॥३ अत्रोपमालङ्कारः ॥२॥
Essence
आचार्यः शिष्यस्य यदात्मबलं वर्द्धयति तत् तस्यापूर्वो निधिः ॥२॥
Subject
अथ पुनरपि गुरुशिष्यविषयो वर्ण्यते।