Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1573

1875 Mantra
Devata- इन्द्रः Rishi- मेध्यातिथिः काण्वः Chhand- बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) Swara- मध्यमः
Mantra with Swara
अ꣣भि꣡ त्वा꣢ पू꣣र्व꣡पी꣢तय꣣ इ꣢न्द्र꣣ स्तो꣡मे꣢भिरा꣣य꣡वः꣢ । स꣣मीचीना꣡स꣢ ऋ꣣भ꣢वः꣣ स꣡म꣢स्वरन्रु꣣द्रा꣡ गृ꣢णन्त पू꣣र्व्य꣢म् ॥१५७३॥

अ꣡भि꣢ । त्वा꣣ । पूर्व꣡पी꣢तये । पू꣣र्व꣢ । पी꣣तये । इ꣡न्द्र꣢꣯ । स्तो꣡मे꣢꣯भिः । आ꣣य꣡वः꣢ । स꣣मीचीना꣡सः꣢ । स꣣म् । ईचीना꣡सः꣢ । ऋ꣣भ꣡वः꣢ । ऋ꣣ । भ꣡वः꣢꣯ । सम् । अ꣣स्वरन् । रुद्राः꣢ । गृ꣣णन्त । पूर्व्य꣢म् ॥१५७३॥

Mantra without Swara
अभि त्वा पूर्वपीतय इन्द्र स्तोमेभिरायवः । समीचीनास ऋभवः समस्वरन्रुद्रा गृणन्त पूर्व्यम् ॥

अभि । त्वा । पूर्वपीतये । पूर्व । पीतये । इन्द्र । स्तोमेभिः । आयवः । समीचीनासः । सम् । ईचीनासः । ऋभवः । ऋ । भवः । सम् । अस्वरन् । रुद्राः । गृणन्त । पूर्व्यम् ॥१५७३॥

Samveda - Mantra Number : 1573
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 16; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) विद्यैश्वर्यवन् आचार्य ! (पूर्वपीतये) पूर्वस्य श्रेष्ठस्य विद्यारसस्य पीतिः पानं तस्मै (आयवः) विद्यार्थिनः (स्तोमेभिः) स्तोत्रैः (त्वा) त्वाम् (अभि) अभ्यर्थयन्ति। तवैव निर्देशने (ऋभवः) मेधाविनश्छात्राः (समीचीनासः) परस्परं संगताः सन्तः (समस्वरन्) सस्वरं वेदमन्त्रानुच्चारयन्ति। (रुद्राः) प्राणवन्तो ब्रह्मचारिणः (पूर्व्यम्) पूर्वैः कविभिः ऋषिभिर्वा कृतं स्तोत्रादिकाव्यमपि। [पूर्वैः कृतं पूर्व्यम्। ‘पूर्वैः कृतमिनयौ च’ अ० ४।४।११३ इति यः प्रत्ययः।] (गृणन्त) गायन्ति ॥१॥
Essence
सुयोग्येभ्यो ब्रह्मविद्भ्यो गुरुभ्यः सुयोग्यैः शिष्यैरधीता भौतिकविद्या ब्रह्मविद्या च फलदायिनी जायते ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके २५६ क्रमाङ्के परमात्मस्तुतिविषये व्याख्याता। अत्र गुरुशिष्यविषयमाह।