Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1572

1875 Mantra
Devata- अग्निः Rishi- प्रयोगो भार्गवः पावकोऽग्निर्बार्हस्पत्यो वा गृहपति0यविष्ठौ सहसः पुत्रावन्यतरो वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
प꣣दं꣢ दे꣣व꣡स्य꣢ मी꣣ढु꣡षोऽना꣢꣯धृष्टाभिरू꣣ति꣡भिः꣢ । भ꣣द्रा꣡ सूर्य꣢꣯ इवोप꣣दृ꣢क् ॥१५७२॥

प꣣द꣢म् । दे꣣व꣡स्य꣢ । मी꣣ढु꣡षः꣢ । अ꣡ना꣢꣯धृष्टाभिः । अन् । आ꣣धृष्टाभिः । ऊति꣡भिः꣢ । भ꣣द्रा꣢ । सू꣡र्यः꣢꣯ । इ꣣व । उपदृ꣢क् । उ꣣प । दृ꣢क् ॥१५७२॥

Mantra without Swara
पदं देवस्य मीढुषोऽनाधृष्टाभिरूतिभिः । भद्रा सूर्य इवोपदृक् ॥

पदम् । देवस्य । मीढुषः । अनाधृष्टाभिः । अन् । आधृष्टाभिः । ऊतिभिः । भद्रा । सूर्यः । इव । उपदृक् । उप । दृक् ॥१५७२॥

Samveda - Mantra Number : 1572
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 15; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(मीढुषः) सुखसेचकस्य (देवस्य) प्रकाशकस्य (अग्नेः) जगदीश्वरस्य (पदम्) प्राप्तव्यं मोक्षपदम् (अनाधृष्टाभिः) अदब्धाभिः (ऊतिभिः) रक्षाभिः युक्तं वर्तते। किञ्च, तस्य (उपदृक्) कृपादृष्टिः (सूर्यः इव) आदित्यस्य (भद्रा) शुभा अस्ति ॥३॥ अत्रोपमालङ्कारः ॥३॥
Essence
परमात्मनः शरणं गत्वा मानवस्तस्याऽक्षय्यां रक्षाममृतमयीं कृपादृष्टिं च लभते ॥३॥ अस्मिन् खण्डे यज्ञाग्निपरमेश्वरविषयोर्वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥
Subject
अथ जगदीश्वरस्य कृपाविषयमाह।