Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1571

1875 Mantra
Devata- अग्निः Rishi- प्रयोगो भार्गवः पावकोऽग्निर्बार्हस्पत्यो वा गृहपति0यविष्ठौ सहसः पुत्रावन्यतरो वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
य꣡स्य꣢ त्रि꣣धा꣡त्ववृ꣢꣯तं ब꣣र्हि꣢स्त꣣स्था꣡वस꣢꣯न्दिनम् । आ꣡प꣢श्चि꣣न्नि꣡ द꣢धा प꣣द꣢म् ॥१५७१॥

य꣡स्य꣢꣯ । त्रि꣣धा꣡तु꣢ । त्रि꣣ । धा꣡तु꣢꣯ । अ꣡वृ꣢꣯तम् । अ । वृ꣣तम् । बर्हिः꣢ । त꣣स्थौ꣢ । अ꣡स꣢꣯न्दिनम् । अ । स꣣न्दिनम् । आ꣡पः꣢꣯ । चि꣣त् । नि꣢ । द꣣ध । पद꣢म् ॥१५७१॥

Mantra without Swara
यस्य त्रिधात्ववृतं बर्हिस्तस्थावसन्दिनम् । आपश्चिन्नि दधा पदम् ॥

यस्य । त्रिधातु । त्रि । धातु । अवृतम् । अ । वृतम् । बर्हिः । तस्थौ । असन्दिनम् । अ । सन्दिनम् । आपः । चित् । नि । दध । पदम् ॥१५७१॥

Samveda - Mantra Number : 1571
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 15; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(यस्य) जगदीश्वरस्य (त्रिधातु) वायुविद्युत्सूर्यरूपैः त्रिभिर्धातुभिर्युक्तम्, (अवृतम्) असंवेष्टितम् (बर्हिः) अन्तरिक्षम्। [बर्हिरित्यन्तरिक्षनाम। निघं० १।३।] (असन्दिनम्) अबद्धम्। [संपूर्वो दो अवखण्डने धातुर्बन्धने दृश्यते।] (तस्थौ) तिष्ठति। यस्मिन् अन्तरिक्षे (आपः चित्) मेघजलानि अपि (पदम्) स्थितिम् (नि दध) निदधति। [नि पूर्वाद् दधातेर्लडर्थे लिटि व्यत्ययेन प्रथमपुरुषस्य स्थाने मध्यमबहुवचनम्, ‘द्व्यचोऽतस्तिङः’ अ० ६।३।१३५, इति दीर्घः।] हे मनुष्याः ! तस्य महिमानं यूयं जानीत इति वाक्यपूर्तिर्विधेया ॥२॥
Essence
परमेश्वरेण रचितस्यान्तरिक्षादिकस्य महिम्ना परमेश्वरस्यैव महिमा प्रकाशते ॥२॥
Subject
अथान्तरिक्षस्य महत्त्वेन परमात्ममहत्त्वमाह।