Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1570

1875 Mantra
Devata- अग्निः Rishi- प्रयोगो भार्गवः पावकोऽग्निर्बार्हस्पत्यो वा गृहपति0यविष्ठौ सहसः पुत्रावन्यतरो वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
उ꣡प꣢ त्वा जा꣣म꣢यो꣣ गि꣢रो꣣ दे꣡दि꣢शतीर्हवि꣣ष्कृ꣡तः꣢ । वा꣣यो꣡रनी꣢꣯के अस्थिरन् ॥१५७०॥

उ꣡प꣢꣯ । त्वा꣣ । जाम꣡यः꣢ । गि꣡रः꣢꣯ । दे꣡दि꣢꣯शतीः । ह꣣विष्कृ꣡तः꣢ । ह꣣विः । कृ꣡तः꣢꣯ । वा꣣योः꣢ । अ꣡नी꣢꣯के । अ꣢स्थिरन् ॥१५७०॥

Mantra without Swara
उप त्वा जामयो गिरो देदिशतीर्हविष्कृतः । वायोरनीके अस्थिरन् ॥

उप । त्वा । जामयः । गिरः । देदिशतीः । हविष्कृतः । हविः । कृतः । वायोः । अनीके । अस्थिरन् ॥१५७०॥

Samveda - Mantra Number : 1570
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 15; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे अग्ने ! हे प्रकाशमय जगदीश्वर ! (हविष्कृतः) आत्मसमर्पकस्य उपासकस्य (जामयः) स्वसार इव हितकारिण्यः, (त्वा देदिशतीः) तव गुणान् निर्दिशन्त्यः (गिरः) वेदवाचः (वायोः) प्राणप्रियस्य तव (अनीके) समीपे (उप अस्थिरन्) उपतिष्ठन्ते। [उक्तं चान्यत्र—ऋ॒चो अ॒क्षरे॑ पर॒मे व्यो॑म॒न् यस्मि॑न् दे॒वा अधि॒ विश्वे॑ निषे॒दुः। यस्तन्न वेद॒ किमृ॒चा क॑रिष्यति॒ य इत् तद् वि॒दुस्त इ॒मे समा॑सते। ऋ० १।१६४।३९ इति] ॥१॥
Essence
यः परमेश्वरोऽग्निरिव स्तोतुरन्तरात्मनि दिव्यं ज्योतिः प्रज्वालयति, वायुरिव च तत् संधुक्षते, तस्यैव महिमानमेकस्वरेण वेदा वर्णयन्ति ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके १३ क्रमाङ्के परमात्ममहिमविषये व्याख्याता। अत्र वेदवाचो वर्ण्यन्ते।