Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 157

1875 Mantra
Devata- इन्द्रः Rishi- मेधातिथिः काण्वः प्रियमेधश्चाङ्गिरसः Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
व꣣य꣡मु꣢ त्वा त꣣दि꣡द꣢र्था꣣ इ꣡न्द्र꣢ त्वा꣣य꣢न्तः꣣ स꣡खा꣢यः । क꣡ण्वा꣢ उ꣣क्थे꣡भि꣢र्जरन्ते ॥१५७॥

व꣣य꣢म् । उ꣣ । त्वा । तदि꣡द꣢र्थाः । त꣣दि꣢त् । अ꣣र्थाः । इ꣡न्द्र꣢꣯ । त्वा꣣य꣡न्तः꣢ । स꣡खा꣢꣯यः । स । खा꣣यः । क꣡ण्वाः꣢꣯ । उ꣣क्थे꣡भिः꣢ । ज꣣रन्ते ॥१५७॥

Mantra without Swara
वयमु त्वा तदिदर्था इन्द्र त्वायन्तः सखायः । कण्वा उक्थेभिर्जरन्ते ॥

वयम् । उ । त्वा । तदिदर्थाः । तदित् । अर्थाः । इन्द्र । त्वायन्तः । सखायः । स । खायः । कण्वाः । उक्थेभिः । जरन्ते ॥१५७॥

Samveda - Mantra Number : 157
(Kauthum) पूर्वार्चिकः: » Prapathak » 2; Ardh Prapathak » 2; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) परमात्मन् ! (त्वायन्तः) त्वां कामयमानाः। युष्मच्छब्दात् आत्मन इच्छार्थे क्यचि शतरि रूपम्। (सखायः) तव सुहृदः (वयम् उ) वयम् उपासकाः खलु। उ इति वाक्यालङ्कारे पदपूरणे वा। (तदिदर्थाः२) तत् इत् तदेव त्वद्दर्शनमेव अर्थः प्रयोजनं येषां तथाविधाः सन्तः (त्वा) त्वाम् स्तुमः इति शेषः। न केवलं वयम्, प्रत्युत (कण्वाः) सर्वेऽपि मेधाविनः। कण्व इति मेधाविनाम। निघं० ३।१५। (उक्थेभिः) उक्थैः स्तोत्रैः त्वाम् (जरन्ते) स्तुवन्ति। जरते अर्चतिकर्मा। निघं० ३।१४ ॥३॥
Essence
हे परमानन्दप्रदायक परमेश्वर ! त्वद्दर्शनलालसाः सर्वे वयमौत्सुक्येन त्वां कामयामहे, पुनः पुनश्च सभक्तिगद्गदं त्वां स्तुवामहे ॥३॥
Subject
अथ वयं परमात्मानमर्चयाम इत्याह।
Footnote
१. ऋ० ८।२।१६, साम० ७१९, अथ० २०।१८।१। २. तदिदर्थाः। इदिति पादपूरणः। यस्तवार्थो यागादिः स अर्थो येषां ते तदर्थाः, यागपरा इत्यर्थः—इति वि०। स एवार्थः प्रयोजनं येषां ते तदिदर्थाः स्तुत्येकपरार्थाः—इति भ०। यत् त्वद्विषयं स्तोत्रं तदित् तदेवार्थः प्रयोजनं येषां तादृशाः सन्तः—इति सा०।