Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1569

1875 Mantra
Devata- अग्निः Rishi- भरद्वाजो बार्हस्पत्यो वीतहव्य आङ्गिरसो वा Chhand- जगती Swara- निषादः
Mantra with Swara
वि꣣भू꣡ष꣢न्नग्न उ꣣भ꣢या꣣ꣳ अ꣡नु꣢ व्र꣣ता꣢ दू꣣तो꣢ दे꣣वा꣢ना꣣ꣳ र꣡ज꣢सी꣣ स꣡मी꣢यसे । य꣡त्ते꣢ धी꣣ति꣡ꣳ सु꣢म꣣ति꣡मा꣢वृणी꣣म꣡हेऽध꣢꣯ स्म नस्त्रि꣣व꣡रू꣢थः शि꣣वो꣡ भ꣢व ॥१५६९॥

विभू꣡ष꣢न् । वि꣣ । भू꣡ष꣢꣯न् । अ꣣ग्ने । उभ꣡या꣢न् । अ꣡नु꣢꣯ । व्र꣣ता꣢ । दू꣣तः꣢ । दे꣣वा꣡ना꣢म् । र꣡ज꣢꣯सी꣣इ꣡ति꣢ । सम् । ई꣣यसे । य꣢त् । ते꣣ । धीति꣢म् । सु꣡मति꣢म् । सु꣣ । मति꣢म् । आ꣣वृणीम꣡हे꣢ । आ꣣ । वृणीम꣡हे꣢ । अ꣡ध꣢꣯ । स्म꣣ । नः । त्रिव꣡रू꣢थः । त्रि꣣ । व꣡रु꣢꣯थः । शि꣣वः꣢ । भ꣣व ॥१५६९॥

Mantra without Swara
विभूषन्नग्न उभयाꣳ अनु व्रता दूतो देवानाꣳ रजसी समीयसे । यत्ते धीतिꣳ सुमतिमावृणीमहेऽध स्म नस्त्रिवरूथः शिवो भव ॥

विभूषन् । वि । भूषन् । अग्ने । उभयान् । अनु । व्रता । दूतः । देवानाम् । रजसीइति । सम् । ईयसे । यत् । ते । धीतिम् । सुमतिम् । सु । मतिम् । आवृणीमहे । आ । वृणीमहे । अध । स्म । नः । त्रिवरूथः । त्रि । वरुथः । शिवः । भव ॥१५६९॥

Samveda - Mantra Number : 1569
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 15; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अग्ने) जगन्नेतः सर्वप्रकाशक परमात्मन् ! (उभयान्) द्रव्यान् पूर्वमन्त्रोक्तान्, देवान् मनुष्यान् योगिजनान् सामान्यजनांश्चेत्यर्थः (विभूषन्) सद्गुणादिभिरलङ्कुर्वन्, (देवानाम्) विदुषाम् दूतः धर्मार्थकाममोक्षान् दावयति प्रापयति यः सः त्वम्। [दु गतौ भ्वादिरत्र णिजन्तः।] (व्रता अनु) स्वकीयान् नियमान् अनुसरन् त्वं द्यावापृथिव्यौ (समीयसे) व्याप्नोषि। (यत्) यस्मात् (ते) तव (धीतिम्) धारणां ध्यानं वा, (सुमतिम्) शोभनां मतिम् (आवृणीमहे) वयं संभजामहे, (अध) तस्मात् (त्रिवरूथः) त्रयः पृथिव्यन्तरिक्षद्युलोकाः वरूथानि गृहाणि निवासस्थानानि यस्य सः सर्वव्यापकः इत्यर्थः। [वरूथमिति गृहनाम। निघं० ३।४।] यद्वा त्रयाणाम् आध्यात्मिकाधिदैविकाधिभौतिकदुःखानां वरूथः निवारकः त्वम्। [वृञ् वरणे स्वादिः, वृण् आवरणे चुरादिः ‘जॄवृञ्भ्यामूथन्’ उ० २।६ इति ऊथन् प्रत्ययः।] (नः) अस्मभ्यम् (शिवः) मङ्गलकरः (भव स्म) जायस्व ॥३॥२
Essence
ध्यातः परमेश्वर उपासकानां सुखशान्तिप्रदो जायते ॥३॥
Subject
अथ गुणकर्मवर्णनपूर्वकं परमात्मानं प्रार्थयते।