Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1568

1875 Mantra
Devata- अग्निः Rishi- भरद्वाजो बार्हस्पत्यो वीतहव्य आङ्गिरसो वा Chhand- जगती Swara- निषादः
Mantra with Swara
त्वां꣢ दू꣣त꣡म꣢ग्ने अ꣣मृ꣡तं꣢ यु꣣गे꣡यु꣢गे हव्य꣣वा꣡हं꣢ दधिरे पा꣢यु꣡मीड्य꣢꣯म् । दे꣣वा꣡स꣢श्च꣣ म꣡र्ता꣢सश्च꣣ जा꣡गृ꣢विं वि꣣भुं꣢ वि꣣श्प꣢तिं꣣ न꣡म꣢सा꣣ नि꣡ षे꣢दिरे ॥१५६८॥

त्वा꣢म् । दू꣣त꣢म् । अ꣣ग्ने । अ꣣मृ꣡त꣢म् । अ꣣ । मृ꣡त꣢꣯म् । यु꣣गे꣡यु꣢गे । यु꣣गे꣢ । यु꣣गे । हव्यावा꣡ह꣢म् । ह꣣व्य । वा꣡ह꣢꣯म् । द꣣धिरे । पायु꣢म् । ई꣡ड्य꣢꣯म् । दे꣣वा꣡सः꣢ । च꣣ । म꣡र्ता꣢꣯सः । च꣣ । जा꣡गृ꣢꣯विम् । वि꣣भु꣢म् । वि꣣ । भु꣢म् । वि꣣श्प꣡ति꣢म् । न꣡म꣢꣯सा । नि꣣ । से꣣दिरे ॥१५६८॥

Mantra without Swara
त्वां दूतमग्ने अमृतं युगेयुगे हव्यवाहं दधिरे पायुमीड्यम् । देवासश्च मर्तासश्च जागृविं विभुं विश्पतिं नमसा नि षेदिरे ॥

त्वाम् । दूतम् । अग्ने । अमृतम् । अ । मृतम् । युगेयुगे । युगे । युगे । हव्यावाहम् । हव्य । वाहम् । दधिरे । पायुम् । ईड्यम् । देवासः । च । मर्तासः । च । जागृविम् । विभुम् । वि । भुम् । विश्पतिम् । नमसा । नि । सेदिरे ॥१५६८॥

Samveda - Mantra Number : 1568
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 15; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अग्ने) स्वप्रकाशमान जगन्नायक प्रकाशदातः परमात्मन् ! (दूतम्) यो दुःखानि दुनोति दहति तम्, (अमृतम्) अमरणधर्माणम्, (हव्यवाहम्) हव्यानि दातुमर्हान् पदार्थान् गुणान् वा यो वहति प्रापयति तम्, (पायुम्) पालकम्, (ईड्यम्) स्तुत्यम्, (जागृविम्) जागरूकम्, (विभुम्) व्यापकम्, (विश्पतिम्) प्रजापालकम् (त्वाम्) जगदीश्वरम् (युगे युगे) प्रतियुगम् (देवासः च) विद्वांसो योगिनश्च (मर्तासः च) सामान्या मनुष्याश्च (दधिरे) स्वात्मनि धारयन्ति, (नमसा) नमस्कारेण सह (निषेदिरे च) त्वदन्तिके निषीदन्ति च ॥२॥२ अत्र विशेषणानां साभिप्रायत्वात् परिकरोऽनुप्रासश्चालङ्कारः ॥२॥
Essence
सर्वगुणाढ्यं परोपकारिणं परमात्मानमतिरिच्य नान्यः कोऽपि परब्रह्मत्वेनोपासनीयः ॥२॥
Subject
अथ पुनस्तमेव विषयमाह।