Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1567

1875 Mantra
Devata- अग्निः Rishi- भरद्वाजो बार्हस्पत्यो वीतहव्य आङ्गिरसो वा Chhand- जगती Swara- निषादः
Mantra with Swara
स꣡मि꣢द्धम꣣ग्निं꣢ स꣣मि꣡धा꣢ गि꣣रा꣡ गृ꣢णे꣣ शु꣡चिं꣢ पाव꣣कं꣢ पु꣣रो꣡ अ꣢ध्व꣣रे꣢ ध्रु꣣व꣢म् । वि꣢प्र꣣ꣳ हो꣡ता꣢रं पुरु꣣वा꣡र꣢म꣣द्रु꣡हं꣢ क꣣वि꣢ꣳ सु꣣म्नै꣡री꣢महे जा꣣त꣡वे꣢दसम् ॥१५६७॥

स꣡मि꣢꣯द्धम् । सम् । इ꣣द्धम् । अग्नि꣢म् । स꣣मि꣡धा꣢ । स꣣म् । इ꣡धा꣢꣯ । गि꣣रा꣢ । गृ꣣णे । शु꣣चि꣢꣯म् । पा꣣वक꣢म् । पु꣣रः꣢ । अ꣣ध्वरे꣢ । ध्रु꣣व꣢म् । वि꣡प्र꣢꣯म् । वि । प्र꣣म् । हो꣡ता꣢꣯रम् । पु꣣रुवा꣡र꣢म् । पु꣣रु । वा꣡र꣢꣯म् । अ꣣द्रु꣡ह꣢म् । अ꣣ । द्रु꣡ह꣢꣯म् । क꣣वि꣢म् । सु꣣म्नैः꣢ । ई꣣महे । जात꣡वे꣢दसम् । जा꣣त꣢ । वे꣣दसम् ॥१५६७॥

Mantra without Swara
समिद्धमग्निं समिधा गिरा गृणे शुचिं पावकं पुरो अध्वरे ध्रुवम् । विप्रꣳ होतारं पुरुवारमद्रुहं कविꣳ सुम्नैरीमहे जातवेदसम् ॥

समिद्धम् । सम् । इद्धम् । अग्निम् । समिधा । सम् । इधा । गिरा । गृणे । शुचिम् । पावकम् । पुरः । अध्वरे । ध्रुवम् । विप्रम् । वि । प्रम् । होतारम् । पुरुवारम् । पुरु । वारम् । अद्रुहम् । अ । द्रुहम् । कविम् । सुम्नैः । ईमहे । जातवेदसम् । जात । वेदसम् ॥१५६७॥

Samveda - Mantra Number : 1567
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 15; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(समिद्धम्) प्रदीप्तम्, तेजोमयम् (अग्निम्) अग्रनायकं जगदीश्वरम् (समिधा गिरा) प्रदीप्तया तेजोमय्या वाचा (गृणे) स्तौमि। (शुचिम्) पवित्रम्, (पावकम्) पवित्रकर्तारम्, (पुरः) समक्षम् (अध्वरे) उपासनायज्ञे (ध्रुवम्) स्थिरतया विद्यमानम्, (विप्रम्) विशेषेण पूरयितारम्, (होतारम्) सुखादीनां दातारम्, (पुरुवारम्) बहुवरणीयानां पुरूणां बहूनां दोषाणां निवारकं वा, (अद्रुहम्) अद्रोग्धारम्, (कविम्) क्रान्तदर्शनं मेधाविनम्, (जातवेदसम्) सर्वज्ञं सर्वव्यापिनं जगदीश्वरम्, वयम् (सुम्नैः) सुखकरैः स्तोत्रैः (ईमहे) याचामहे ॥१॥२ अत्र विशेषणानां साभिप्रायत्वात् परिकरालङ्कारः ॥१॥
Essence
यस्तेजस्वी पवित्रः पावको ध्रुवश्छिद्राणां पूरयिता सद्गुणानां दाता दुर्गुणानामपहर्ता भक्तवत्सलः क्रान्तद्रष्टा सर्वज्ञः सर्वान्तर्यामी परमेश्वरोऽस्ति स सर्वैः श्रद्धया सम्भजनीयः सद्गुणान् याचनीयश्च ॥१॥
Subject
तत्रादौ जगदीश्वरस्य गुणान् कीर्तयति।